Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c62.279

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c62.279

Language
English

v4.c62.279

¹⁵⁷ वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनमव्यङ्गं तपस्विनं पुरोहितं च वरयेत् । विष्णुधर्मसूत्र III. 70; पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् । दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ याज्ञ . I. 313; पुरोहितमुदितोदितकुलशीलं षडङ्गे वेदे दैवे निमित्ते दण्डनीत्यां चाभिविनीतमापदां दैवमानुषीणामथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत । तमाचार्य शिष्यः पितरं पुत्रो भृत्यः स्वामिनमिव चानुवर्तेत । ... ... ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् । जयत्यजितमत्यन्तं शास्त्राणुगमशस्त्रितम् ॥ कौटिल्य I. 9; राजा पुरोहितं कुर्याद्रूपिणं ब्राह्मणं हितम् । कृताध्ययनसंपन्नमलुब्धं सत्यवादिनम् ॥ कात्या. q. in रा. वि. p. 20.

Linked texts (4)