History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.807
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.807
- Language
- English
v4.c63.807
⁸⁵⁵ पूगव्राते चान्योन्यमुत्सृज्य समरे न गन्तव्यमित्याद्यः सन्ति समयाः। गणे तु पञ्चमेऽह्नि पञ्चमे वाब्दे कर्णवेधः कर्तव्य इत्येवमादिरस्ति समयः । गणादिष्वत्रादिशब्देन ब्रह्मपुरीमहाजनः परिगृहीतः । तत्र गुरुदक्षिणार्थमागतो माननीय इत्यादिसमयोस्ति । दुर्गे तु धान्यादिकं गृहीत्वा अन्यत्र यास्यतो न तद्विक्रेयमित्यस्ति समयः । जनपदे तु क्वचिद्विक्रेतृहस्ते दशबन्ध-ग्रहणं कार्यं क्वचित्क्रेतृहस्ते इत्यादिकोस्त्यनेकविधः समयः । जनपदे तथेत्यत्र तथाशब्दोऽनु-क्तग्रामघोषपुरादीनां प्रदर्शनार्थः । तत्र न गोप्रचारस्थाने खातव्यमित्यादिकोस्ति ग्रामे समयः । आभीरस्त्रीपुरुषव्यभिचारे न दण्ड इत्यादिकोस्ति घोषे समयः । स्मृतिच. II. p. 223 on नारद XIII. 2 'पाषण्डिनैगमश्रेणीपूगव्रातगणादिषु । संरक्षेत् समयं राजा दुर्गे जनपदे तथा॥'.
Linked texts (2)
- Nāradasmṛti — Nārada, Sanskrit
- Smṛticandrikā (Āpadeva) — Āpadeva 1600, Sanskrit