Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.566

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.566

Language
English

v4.c63.t2.566

¹⁶³⁷ सूत्राणि तु पूर्वाधिकरणाक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि वेदविहितं न बाधते शिष्टान् वा वेदविदो न कोपयति विहारा राममण्डलकरणवैराग्य-ध्याना-भ्यासाहिंसा-सत्यवचन-दम-दान-दयादि तद्बुद्धादिभाषितं प्रमाणेनाविरुद्धमिति चेत् । न । शास्त्रपरिमाणत्वात् । परिमितान्येव हि चतुर्दशाष्टादश वा विद्यास्थानानि धर्मप्रमाणत्वेन शिष्टैः परिगृहीतानि वेदोपवेदाङ्गेोपाङ्गाष्टादशधर्मसंहितापुराणशास्त्रशिक्षादण्डनीति-संज्ञकानि, न च तेषां मध्ये बौद्धादिग्रन्थाः स्मृता गृहीता वा । ... तेन ... सन्मूलमप्य-हिंसादि श्वदृतिनिक्षिप्तक्षीरवदनुपयोग्यविश्रम्भणीयं च तन्मात्रोपलब्धं भवतीत्यवश्यं यावत्परिगणितधर्मशास्त्रेभ्यो नोपलभ्यते तावदग्राह्यं भवति । तन्त्र० pp. 201-203; vide n. 1620 above.

Linked texts (1)