Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.591

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.591

Language
English

v4.c63.t2.591

¹⁶⁵³ यत्तु अहिच्छत्रब्राह्मणीनां सुरापानं दाक्षिणात्यानां च मातुलकन्यापरिणयादि तत्र केचिदेवं परिहरन्ति 'येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः। त एव तैर्न दुष्येयुराचारैर्नेतरे जनाः। इत्यापस्तम्बवचनात्, 'येनास्य पितरो ... दुष्यति' इति मनुवचनाच्च देशव्यवस्थया स्मृत्याचारयोः प्रामाण्यम्। अतश्च यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः अतस्तद्वन्यदेशविषयैव तन्निषेधस्मृतिरिति न विरोध इति। तन्न ... आपस्तम्बवचनं तु गर्हानिराकरणपरतया व्याख्येयं मनुवचनं तु सतां मार्गमिति विशेषणादविरुद्धारचारपरं व्याख्येयमिति न विरोधः। अतश्चाहिच्छत्रब्राह्मणीसुरापानादेरनाचारत्वमेव। मी. कौ. p. 51 (on जै. I. 3. 7);

Linked texts (2)