Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.322

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.322

Language
English

v4.c64.322

छलानि चापराधांश्च पदानि नृपतेस्तथा । स्वयमेतानि गृह्णीयान्नृपस्त्वावेदकैर्विना ॥
पथिभङ्गी कराक्षेपी प्राकारोपरिलंघकः । निपानस्य विनाशी च तथा चायतनस्य च ॥
परिखापूरकश्चैव राजच्छिद्रप्रकाशकः ॥ अन्तःपुरं वासगृहं भाण्डागारं महानसम् । प्रविशत्यनियुक्तो यो भोजनं च निरीक्षते ॥
विण्मूत्रश्लेष्मवातानां क्षेप्तुकामो नृपाग्रतः । पर्यङ्कासनबन्धी चाप्यप्रस्थाननिरोधकः ॥
राज्ञोऽतिरिक्तवेषश्च विष्टतः प्र विशेत्तु यः । यक्षापद्वारेण विशेद् वेलायां तथैव च ॥
शय्यासने पादुकयोः शयनासनरोहणम् (रोहणे ? ) । राजन्यासम्प्रशयने यस्तिष्ठति समीपतः ॥
राज्ञो विदिष्टसेवी चाप्यदत्तविहितासनः । वस्त्रामरणयोश्चैव सुवर्णपरिधायकः ॥
स्वयंमाहेण ताम्बूलं गृहीत्वा भक्षयेत्तु यः । अनियुक्तप्रभाषी च नृपाक्रोशक एव च ॥
एकवासास्तथाभ्यक्तो मुक्तकेशोऽवगुण्ठितः । विचित्रिताङ्गः स्रग्वी च परिधानविधूनकः ॥
शिरःप्रच्छादनश्चैव छिद्रान्वेषणतत्परः । आसङ्गी मुक्तकेशश्च यश्च कर्णाक्षिकर्शकः (दर्शकः ?) । दन्तोल्लेखनकश्चैव कर्णनासाविशोधकः ।
छलाग्येतानि पञ्चाशद्भवन्ति नृपसन्निधौ ॥