History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.325
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.325
- Language
- English
v4.c64.325
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः प्रष्टव्याः साक्षिणः प्रतिदूषिताः ॥
दासनेकृतिकाश्राद्धवृद्धस्त्रीबालचक्रिकाः । मत्तोन्मत्तप्रमत्तार्त कितवप्रामयाजकाः ॥
महापथिकसामुद्रवणिग्रप्रव्रजितातुराः । व्यङ्कैकश्रोत्रियाचारहीनक्लीबकुशोलिवाः ॥
नास्तिकव्रात्यदारामित्यागिनोऽयाज्ययाजकाः । एकत्रस्थालीसहायारिचरज्ञातिसनामयः ॥
प्राग्दृष्टदोषशैलूषविषजीव्यहितुण्डिकाः । गरदाग्निदकीनाशशूद्रापुत्रौपपातिकाः ॥
क्लान्तसाहसिकभ्रान्तनिर्धनान्त्यावसायिनः । भिन्नवृत्तासमावृत्तजडतैलिकमूलिकाः ॥
भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः । अघशंस्यात्मविक्रेतृहीनाङ्कभगवृत्तयः ॥
कुनखी श्याम(व ?) दन्तश्च मित्रध्रुक् शठशीण्डिकाः । ऐन्द्रजालिक्लुब्धोग्र श्रेणीगणविरोधिनः ॥
वधकश्चर्मकृत्पङ्गुः पतितः कूटकारकः । कुहकः प्रत्यवसितस्तस्करो राजपूरुषः ॥
मनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् । विक्रेता ब्राह्मणश्चैव द्विजो वार्धुषिकश्च यः ॥
च्युतः स्वधर्मात्कुलिकः स्तावको हीनसेवकः । पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः ॥