History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.329
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.329
- Language
- English
v4.c64.329
एकमेवाद्वितीयं तत्प्राहुः पावनमात्मनः । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ १०
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते ॥ ११
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ १२
भूर्धारयति सत्येन सत्येनोदेति भास्करः । सत्येन वायुः प्लवते सत्येनापः स्रवन्ति च ॥ १३
सत्यमेव परं दानं सत्यमेव परं तपः । सत्यमेव परो धर्मः लोकानामिति नः श्रुतम् ॥ १४
सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृतम् । इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ १५
सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । उक्त्वाऽनृतं महाघोरं नरकं प्रतिपत्स्यसे ॥ १६
नरकेषु च ते शश्वज्जिह्वामुत्कृत्य दारुणाः । असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥ १७
शूलैर्भित्स्यन्ति चाक्रम्य क्रोशन्तमपरायणम् । अवस्थितं समुत्कृत्य क्षेप्स्यन्ति त्वां हुताशने ॥ १८
अनुभूय च तास्तीव्राश्चिरं नरकवेदनाः । इह यास्यसि पापिष्ठ गृध्रकाकादियोनिषु ॥ १९
ज्ञात्वैताननृते दोषाञ्ज्ञात्वा सत्ये च सद्गुणान् । सत्यं वदोद्धरात्मानं नात्मानं पातय स्वयम् ॥ २०
न बान्धवा न सुहृदो न धनानि महान्त्यपि । अलं धारयितुं शक्तास्तमस्युग्रे निमज्जतः ॥ २१
पितरस्त्ववलम्बन्ते त्वयि साक्षित्वमागते । तारयिष्यति किन्त्वस्मान् (किन्वस्मान् ?) किं चायं पातयिष्यति ॥ २२
सत्यमात्मा मनुष्यस्य सत्ये सर्वे प्रतिष्ठितम् । सत्यमुक्त्वात्मनात्मानं श्रेयसा संनियोजय ॥ २३
यस्यां रात्रावजनिष्ठा यस्यां रात्रौ मरिष्यसि । वृथा तदन्तरं तुभ्यं साक्ष्यं चेदन्यथा कृथाः ॥ २४
ब्रह्मघ्नस्य तु ये लोका ये च स्त्रीबालघातिनाम् । ये च लोकाः कृतघ्नस्य ते ते स्युर्ब्रुवतो वृथा ॥ २५
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । साक्षिधर्मे विशेषेण सत्यमेव वदेत्ततः ॥ २६
पुराणोक्तौ द्वौ श्लोकौ भवतः । यः परार्थे प्रहिणुयात्स्वां वाचं पुरुषाधमः । आत्मार्थे किं न कुर्यात्स पापो नरकनिर्भयः ॥ २७
वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः । यो हि तां स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः॥ २८