History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.334
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.334
- Language
- English
v4.c64.334
मृतघटस्फोटस्य पुंसोऽनुतापे तत्पापप्रायश्चित्तान्ते संग्रहविधिरुच्यते । तत्रादौ शुद्धिपरीक्षा । कृतप्रायश्चित्तो ज्ञातिसमक्षं गोभ्यस्तृणभारं दद्यात् । गोभिस्तृणे भक्षिते शुद्धिः । अभक्षणभावे पुनः प्रायश्चित्तं चरेत् । एवं निश्चितसंग्रहद्वौ समानेयुर्नवं घटम् । हैमं वा मृन्मयं वापि पवित्रजलपूरितम् ॥ ततः सपिण्डास्तं घटं संस्पृश्याभिमन्त्र्य तज्जलैः पावमानीभिरापोहिष्ठेत्यादिभिस्तरत्समन्दीभिश्च पापिनमभिषिच्य तेन सह सर्वे स्नात्वा तं जलघटमस्मै दद्युः । स च शान्ता द्यौः शान्ता पृथिवी शान्तं विश्वमन्तरिक्षं यो रोचनस्तमिह गृह्णामीति यजुर्भिस्तं घटं गृह्णीयात् । ततस्तदुदकं तेनैव सार्कं सर्वे पिबेयुः । ततः स कूष्माण्डमन्त्रैराज्यहोमं कृत्वा सुवर्णं गां च दद्यात् । ततस्तस्य जातकमांदिव्रतबन्धान्ता विवाहान्ता वा संस्काराः कार्याः । एवं कृते शुद्धेन तेन संस्पर्शसंभोजनादिव्यवहारं कुर्यात् । एवमुपपातके महापातके च कृतघटस्फोटस्य शुद्धिर्ज्ञेया । इति संक्षेपतः कृतघटस्फोटशुद्धिः । धर्मसिन्धु III उत्तरार्ध p. 454. The निर्णयसिन्धु (III उत्तरार्ध p. 568 ) has a similar but more elaborate note, quotes and relies on Gaut. 20. 10-17, Manu XI. 186, Yāj. III. 295, Vas. 15. 17-21, the Mit., Aparārka and Hemādri.