Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.336

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.336

Language
English

v4.c64.336

अथातः पुत्रप्रतिग्रहकल्पं व्याख्यास्यामः । शोणितशुक्रसम्भवो मातृपितृनिमित्तकस्तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ कर्तारौ भवतो न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषाम् । न तु स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः । पुत्रं प्रतिग्रहीष्यन्नुपकल्पयते—द्वे वाससी द्वे कुण्डले अङ्गुलियकं चाचार्यं च वेदपारगं कुशमयं बर्हिः पर्णमयमिक्ष्ममिति । अथ बन्धूनां मध्ये राजनि चावेद्य परिषदि वागारमध्ये वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धमिति वाचयित्वाथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा दातुः समीपं गत्वा पुत्रं मे देहीति भिक्षेत ददामीतीतर आह । तं पुत्रं प्रतिगृह्णाति धर्माय त्वा गृह्णामि सन्तत्यै त्वा गृह्णामीति । अथैनं वस्त्रकुण्डलाभ्यामङ्गुलीयकेन चालङ्कृत्य परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति । 'यस्त्वा हृदा कीरिणा मन्यमानः' इति पुरोनुवाक्यामनूच्य 'यस्मै त्वं सुकृते जातवेदः' इति याज्यया जुहोति । अथ आज्याहुतीरुपजुहोति–व्याहृतिभिर्हुत्वा स्विष्टकृतप्रभृति सिद्धमाधेनुवरप्रदानात् । अथ दक्षिणां ददात्येते एव वाससी एते एव कुण्डले एतच्चाङ्गुलीयकम् । यद्येवंकृते औरसः पुत्र उत्पद्यते तुरीयभागोष भवतीति ह स्माह भगवान्बोधायनः । This is quoted in the दत्त. मी. pp. 152-153, सं. कौ. p. 177, धर्मसिन्धु III पूर्वार्ध p. 161 (partly) and Bühler published it with a translation in the Journal of the Bengal Asiatic Society vol. 35 pp. 161-164.