Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.338

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.338

Language
English

v4.c64.338

शौनकोऽहं प्रवक्ष्यामि पुत्रसङ्ग्रहमुत्तमम् । अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च ॥ १
वाससी कुण्डले दत्त्वा उष्णीषं चाङ्गुलीयकम् । आचार्यं धर्मसंयुक्तं वैष्णवं वेदपारगम् ॥ २
मधुपर्केण संपूज्य राजानं च द्विजाञ्शुचीन् । बर्हिः कुशमयं चैव पालाशं चेध्ममेव च ॥ ३
एतानाहृत्य बन्धूंश्च ज्ञातीनाहूय यत्नतः । बन्धूनन्नेन संभोज्य ब्राह्मणांश्च विशेषतः ॥ ४
अन्वाधानादि यत्तन्त्रं कृत्वाज्योत्पवनादिकम् । धातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् ॥ ५
दाने समर्थो दातास्मै ये यज्ञेनेति पञ्चभिः । देवस्य त्वेति मन्त्रेण हस्ताभ्यां प्रतिगृह्य च ॥ ६
अङ्गादङ्गेत्यृचं जप्त्वा चाघ्राय शिशुंमूर्धनि । वस्त्रादिभिरलङ्कृत्य पुत्रच्छायावहं सुतम् ॥ ७
नृत्यगीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम् । गृहमन्त्र्ये तमादाय चरुं हुत्वा विधानतः ॥ ८
यस्त्वा हृदेत्यृचा चैव तुभ्यमग्न ऋचैकया । सोमो दददित्येताभिः प्रत्यूचं पञ्चभिस्तथा ॥ ९
स्विष्टकृदादिहोमं च कृत्वा शेषं समापयेत् । ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः ॥ १०
तदभावेऽसपिण्डो वा अन्यत्र तु न कारयेत् । क्षत्रियाणां स्वजातौ वा गुरुगोत्रसमोपि वा ॥ ११
वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु । सर्वेषामेव वर्णानां जातिष्वेव न चान्यतः ॥ १२
दौहित्रो भागिनेयश्च शूद्रस्यापि च दीयते । ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् ॥ १३
नैकपुत्रेण कर्तव्यं पुत्रदानं कदाचन । बहुपुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः ॥ १४
दक्षिणां गुरवे दद्याद्यथाशक्ति द्विजोत्तमः । नृपो राष्ट्रार्धमेवापि वैश्यो वित्तशतत्रयम् ॥ १५