History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.343
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c64.343
- Language
- English
v4.c64.343
व्रतप्रतिनिधिश्चैव तस्मिन् काले प्रवर्तते । ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः ॥ ३१ क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे । निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः ॥ ३२ ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे । अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः ॥३३ विपरीते तदा लोके पूर्वरूपं क्षयस्य यत् । बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप ॥ ३४ मृषानुशासिनः पापा मृषावादपरायणाः। आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः ॥ ३५ काम्बोजा बाह्निकाः शूरास्तथाभीरा नरोत्तम । न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति ॥३६ क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप । अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः ॥३७ अल्पसारल्पदेहाश्च तथा सत्याल्पभाषिणः । बहुशून्या जनपदा मृगव्यालावृता दिशः ॥ ३८ युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः । भोवादिनस्तथा शूद्रा ब्राह्मणाचार्यवादिनः ॥ ३९ युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः । न तथा घ्राणयुक्ताश्च सर्वगन्धा विशांपते ॥ ४० रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः । बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः ॥ मुखेभगाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥ ४१ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥४२ अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप । अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥ ४३ ब्रह्मवध्याभिशंसानां तथा मिथ्याभिशंसिनाम् । नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥ ४४ लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः । भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥ ४५ करभारभयाद्भीता गृहस्थाः परिमोषकाः । मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीविनः ॥ ४६ मिथ्या च नखरोमाणि धारयन्ति तदा द्विजाः । अर्थलोभान्नग्नरव्याघ्र तथा च ब्रह्मचारिणः ॥ ४७ आश्रमेषु वृथाचारा पानपा गुरुतल्पगाः । इहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥ ४८ बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः । आश्रमा मनुजव्याघ्र भविष्यन्ति युगक्षये ॥ ४९ यथर्तुवर्षी भगवान् तथा पाकशासनः । न चापि सर्वबीजानि सम्यग्रोहन्ति भारत ॥ ५० हिंसाभिरामाश्च जनस्तथा संपद्यतेऽशुचिः । अधर्मफलमत्यर्थं तदा भवति चानघ ॥ ५१ तदा च पृथिवीपाल यो भवेदधर्मसंयुतः । अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन ॥५२ भूयिष्ठं कूटमानैश्च पण्यं विक्रीडते (विक्रीणते?) जनः (नाः ?)। वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥ ५३ धर्मिष्ठाः परिहीयन्ते पापीयान्वर्थते जनः । धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ॥ ५४ अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा । दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥ ५५ नगराणां विहारेषु विधर्माणो युगक्षये । अधर्मिष्टैरुपायैश्च प्रजा व्यवहरन्त्युत ॥ ५६ सञ्चयेन तथल्पेन भवन्त्याढ्यमदान्विताः । धनं विश्वाशतो न्यस्तं मिथो भूयिष्ठशो नराः ॥५७ हर्तुं व्यवसिता राजन् पापाचारसमन्विताः । नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः ॥ ५८ पुरुषार्दानि सत्त्वानि पक्षिणोथ मृगास्तथा । नगराणां विहारेषु चैत्येष्वापि च शेरते ॥ ५९ सप्तवर्षीप्रथर्वाथ स्त्रियो गर्भधरा नृप । दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥ ६० भवन्ति षोडशे वर्षे नराः पलितमस्तथा । आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥ ६१ क्षीणाुषो महाराज तरुणा वृद्धशीलिनः । तरुणानां च यच्छीलं तद् वृद्धेषु प्रजायते ॥ ६२
Linked texts (1)
- Mahābhārata — Vyāsa, Sanskrit