History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.10
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.10
- Language
- English
v5.c73.10
⁷⁵⁵ अथ ये नास्तिका मृतानां पित्रादीना मतिरिक्तशुभाशुभकर्मवशेन स्वर्गनरकादिषु तत्तद्योनिषु वा गताना श्राद्धकरणमनर्थकमित्याहुस्तन्निराकरणं तावत् क्रियते। किं विध्यभावाद्वा श्राद्धकरणमनर्थकसुत फलाभावादुत पित्रादीनां तृप्त्यसिद्धे । न तावदाद्य. तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षण —इत्यादिविधिदर्शनात् । न द्वितीय । आयुः प्रजा धनं विद्या स्वर्गं मोक्ष सुखानि च—इत्यादिफलश्रवणात् । न तृतीयः। न ह्यत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूता पित्रादिशब्दैरुच्यन्ते किं त्वधिष्ठातृवस्वादिदेवतासहिता एव। यथा देवदत्तादिशब्देन शरीर-मात्रं नाप्यात्ममात्रं किन्तु शरीरविशिष्टाः प्राणिन एवोच्यन्ते । एवमधिष्ठातृदेवतासहिता एव देवदत्तादय. पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्ठातृदेवता वस्वादय. पुत्रादिभिर्दत्तेनान्नपानादिना तृप्ताः सन्तस्तानपि देवदत्तादींस्तर्पयन्ति कर्तृंश्च पुत्रादिफलेन योजयन्ति । यथा माता गर्भपोषणायन्द्यदत्तेन दोहदान्नपानादिना स्वयमवपुष्टकेन तृप्ता सती स्वजठरगतमपत्य तर्पयति दोहदाभप्रदायिनश्च प्रत्युपकारफलेन संयोजयति तद्वद्वसुरुरुद्रादित्या पितर पितृपितामहप्र-पितामहशब्दवाच्या न केवलं देवदत्तादय एव । तदेते श्राद्धदेवता श्राद्धकर्मणि सम्प्रदानभूता-श्राद्धेन तर्पिताः सन्तो मनुष्याणां पितॄंस्तर्पयन्तीति । श्राद्धकल्पलता pp 3-4. The passage from न ह्यत्र देवदत्तादयः up to the end is taken almost verbatim from the Mit. on Yāj. I 268. The श्राद्धतत्त्व p 191 remarks 'वसुरुरुद्रादिसुताः—इति एतद्वचनं तु तदाकारत्वेन भावनापरमिति श्राद्धविवेकवादय.।'