Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c74.t2.204

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c74.t2.204

Language
English

v5.c74.t2.204

¹⁴⁷³ The verses relating to गया in वनपर्व 84 are set out in full here. ततो गयां समासाद्य ब्रह्मचारी समाहितः। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्॥ तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः। तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते॥ महानद्यामुपस्पृश्य तर्पयेत् पितृदेवताः। अक्षयान्प्राप्नुयात् लोकान् कुलं चैव समुद्धरेत्॥ ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्। ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ॥ 'ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः। यूपं प्रदक्षिणीकृत्या वाजपेयफलं लभेत् ॥ ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम्। एकरात्रोषितो राजन् प्रयच्छेत् तिलधेनुकाम् ॥ सर्वपापविशुद्धात्मा सोमलोकं व्रजेद् ध्रुवम्। तत्र चिह्नं महाराजद्यापि सुमहद् भृशम्। कपिलाया सवत्सायाश्चरन्त्याः पर्वते कृतम्। सवत्सायाः पदानि स्म दृश्यन्तेद्यापि भारत॥ तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम। यत्किंचिदशुभं कर्म तत्प्रणश्यति भारत॥ ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः। स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्॥ ब्राह्मणेन भवेच्चीर्णे व्रतं द्वादशवार्षिकम्। इतरेषां तु वर्णानां सर्वपापं प्रणश्यति॥ उश्यन्तं च ततो गच्छेत् पर्वतं गीतनादितम्। सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ॥ तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः। तेन ह्यपास्ता भवति सन्ध्या द्वादशवार्षिकी॥ योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ। तत्राभिगम्य मुच्येत पुरुषो योनिसङ्कटात्॥ कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः। पुनात्यासप्तमं राजन् कुलं नास्त्यत्र संशय ॥ एष्टव्या... नृपसत्स्येते ॥ ततः फल्गुं व्रजेद्राजन् तीर्थसेवी नराधिप। अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत्॥ ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः। तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर॥ तत्र कूपीदक कृत्वा तेन स्नातः शुचिस्तथा। पितॄन्वेवांस्तु सन्तर्प्य मुक्तपापो दिवं व्रजेत्॥ पतङ्गस्याश्रमस्तत्र महर्षेर्भावितात्मनः। तं प्रविश्याश्रमं श्रीमान्मुच्यतेऽशोकविनाशनम्॥ गयामयनयज्ञस्य फलं प्राप्नोति मानवः। धर्मे तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात्॥ ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम्। तत्राभिगम्य राजेन्द्र गङ्गायां पुरुषर्षभ॥ राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः। ततो राजगृहं गच्छेत् तीर्थसेवी नराधिप॥ वनपर्व 84. 82-104. These verses are q. in the तीर्थचि. pp. 275-277 (except three), त्रिस्यलीसेतु pp 321-323. It may be noted that the Padmapurāṇa, Ādikhaṇḍa, chap 38 (verses 2-19) contains verbatim and in the same order the verses about Gayā in the Vanaparva 84. 82-99 except that a word is changed here and there. There is hardly any doubt that one borrows from the other Good grounds have been advanced by Mr M. V. Vaidya in his paper 'Tīrthayātrā in the Āraṇyakaparvan and the Padmapurāṇa' in the Kane Festschrift pp 530-537 Dr. S. K. Belvalkar in the volume of Indian and Eastern studies presented to Prof F. W Thomas pp. 19-28 in his paper on 'Cosmographical episode in the Mahābhārata and the Padmapurāṇa' has shown that chapters 80-83 of the Vanaparva are taken over by the author of the Padmapurāṇa in chapters 10. 5 to chapter 39.120.

Linked texts (2)