Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c74.t2.73

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c74.t2.73

Language
English

v5.c74.t2.73

¹³⁹⁷ उर्वशीपुलिने पुण्ये विपुले हंसपाण्डुरे। परित्यजति यः प्राणाञ् शृणु तस्यापि यत्फलम्॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च। सेव्यते पितृभिः सार्धं स्वर्गलोके नराधिप ॥ उर्वशीं तु सदा पश्येत्स्वर्गलोके नरोत्तम। पूज्यते सततं पुत्र ऋषिगन्धर्वकिन्नरै ॥ तत स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः। उर्वशीसदृशानां तु कन्यानां लभते शतम्॥ मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत्। दशग्रामसहस्राणां भोक्ता भवति भूमिपः ॥ काञ्चीनूपुरशब्देन सुप्तोसौ प्रतिबुध्यते। भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थे लभते पुनः॥ शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः । एकं कालं तु भुञ्जानो मासं भूमिपतिर्भवेत्॥ सुवर्णालंकृतानां तु नारीणां लभते शतम्। पृथिव्यामासमुद्रायां महाभूमिपतिर्भवेत्॥ धनधान्यसमायुक्तो दाता भवति नित्यशः। भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थे लभते पुन ॥ मत्स्य. 106 34-42 = पद्म, आदिखण्ड 43.34-42 with some variations The first two verses are कूर्म I. 37. 26-27 and all occur नारदीय (उ ) 63. 140-149.

Linked texts (4)