Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.16

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.16

Language
English

v5.c75.16

ऋ. १० १६. मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम्। यदा शृतं कृणवो जातवेदोऽथेमेनं प्रहिणुतात्पितृभ्यः॥ १ शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः। यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति॥ २ सूर्य चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा। अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः॥ ३ अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः। यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम्॥ ४ अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः। आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः॥ ५ यत्ते कृष्णः शकुन आततोद पिपीलः सर्प उत वा श्वापदः। अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश॥ ६ अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च। नेत्ता धृष्णुर्हरसा जर्हृषाणो दधग्विधक्ष्यन्पर्यङ्खयाते॥ ७ इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम्। एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते॥ ८ क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्यो गच्छतु रिप्रवाहः। इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्॥ ९ यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम्। तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे॥ १० यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः। प्रेदु हव्यान वोचति देवेभ्यश्च पितृभ्य आ॥ ११ उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि। उशन्नुशत आ वह पितॄन्हविषे अत्तवे॥ १२ यं त्वमग्ने समदहस्तमु निर्वापया पुनः। कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा॥ १३ शीतिके शीतिकावति ह्लादिके ह्लादिकावति। मण्डूक्य१ सं सु सं गम इमं स्व१ग्निं हर्षय १४