History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.17
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.17
- Language
- English
v5.c75.17
ऋ. १०. १७. त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति। यमस्य माता पर्युह्यमाना महो जा या विवस्वतो ननाश॥ १ अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामदधुर्विवस्वते। उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः॥ २ पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः। स एतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदथियेभ्यः॥ ३ आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात्। यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु॥ ४ पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्। स्वस्तिदा आघृणिः सर्ववीरोऽप्रमृच्छन्पुर एतु प्रजानन्॥ ५ प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः। उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्॥ ६ सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात्॥ ७ सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती। आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे॥ ८ सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः। सहस्रार्घमिळो अत्र भागं रायस्पोषं
Linked texts (1)
- Ṛgvedasaṃhitā — Sanskrit