History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v6.c82.47
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v6.c82.47
- Language
- English
v6.c82.47
⁶⁷³ तद् ब्रह्म परमं नित्यमजमक्षयमव्ययम्। 'तदेव सर्वमेवैतद् व्यक्ताव्यक्तस्वरूपवत्। तथा पुरुषरूपेण कालरूपेण च स्थितम्॥ परस्य ब्रह्मणो रूपं पुरुष प्रथमं द्विज। व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथापरम्॥' अनादिर्भगवान्कालो नान्तोस्य द्विज विद्यते। विष्णुपुराण I 2. 13-15, 26. [^674] एवं कालोप्यनुमित सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभु । स काल परमाणूर्वे यो भुङ्क्ते परमाणुताम् । ततोऽविशेषभुग्यस्तु स काल. परमो महान् । अणुर्द्वा परमाणु स्यात्त्रसरेणुस्त्रय. स्मृत । जालान्तरगते खमेवानुपतन्नगात् । त्रसरेणुत्रिकं भुङ्क्ते य काल स त्रुटि स्मृत. । शतभागस्तु वेध स्यात्तैस्त्रिभिस्तु लव स्मृत. । निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रय क्षण । भागवत III 11 3-7 [^675] लोकानामन्तकृत्काल कालोन्य कलनात्मक । स द्विधा स्थूलसूक्ष्मत्वान्मूर्तमूर्त उच्यते ॥ प्राणादि कथितो मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञक । षड्भि प्राणैर्विनाडी स्यात् तत्षष्ट्या नाडिका स्मृता । नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् ॥ सूर्यसिद्धान्त I. 10-11.
Linked texts (3)
- Viṣṇupurāṇa — Vyāsa, Sanskrit
- Bhāgavatapurāṇa — Vyāsa, Sanskrit
- Sūryasiddhānta — Maya, Sanskrit