Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c89.153

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c89.153

Language
English

v7.c89.153

¹²²³ अथ प्रयोगः । देशकालौ संकीर्त्य अमुकगोत्रोत्पन्नस्यामुकशर्मणो मम आयुष्यभि-वृद्ध्यर्थं श्रीमार्कण्डेयादिदेवताप्रीत्यर्थं सग्रहमखासुग्ररथशान्तिं करिष्ये । तदङ्गणेशपूजामातृ-पूजानान्दीश्राद्ध-आचार्यादिवरणं च करिष्ये-इति सङ्कल्प्य तानि कृत्वा वृताचार्य शरीरशुद्धयर्थं देवयजनं रक्षस्वेत्यन्तमुक्त्वा ग्रहस्थापनं कृत्वा मार्कण्डेयाय नम इति मन्त्रेण पीठोपरि कलशे मार्कण्डेयमावाह्य परिवारदेवतावाहनं कुर्यात् । अश्वत्थाम्ने नमः अश्वत्थामानमावाहयामि। एवं-मुत्तरत्र बलये नम बलिमावाहयामि, व्यासाय०, हनुमते०, बिभीषणाय०, कृपाय०, परशुरामाय० एता आवाह्य काण्डानुसमयेन पदार्थांनुसमयेन वा सम्पूज्याग्निप्रतिष्ठापनादि चक्षुषी आज्येनेत्यन्त, तन्न प्रधानं आदित्यादीन् यथालाभ समिदादिद्रव्यै. मार्कण्डेयं समिदाज्य-चरुदूर्वापायसद्रव्यै प्रत्येकमष्टोत्तरसहस्राष्टोत्तरशताष्टाविंशतिरणसख्याभिर्वा आहुतिभि , मृत्युञ्जयं दूर्वाद्रव्येणायुतसख्यया पञ्चसहस्रसख्यया त्रिसहस्रसख्यया सहस्रसंख्यया वा, पुन-र्मृत्युञ्जयं तिलद्रव्येण पूर्वोक्तसंख्यया । अश्वत्थामादीन् लाजाद्रव्येणाष्टोत्तरादिसख्यया यक्ष्य शेयेणेत्यादिप्रधानहोमाङ्गं कृत्वा श्रीसूक्त रुद्राध्यायं आयुष्यसूक्तं पुरुषसूक्तं यथाशक्ति वेद-पारायणं च कृत्वा बलिदानं पूर्णाहुतिं च कृत्वा होमशेषं समाप्य, अभिषेकं यजमानस्य सपत्नी-कस्य बन्धुवर्गसमन्वितस्य कृत्वा शान्तिसूक्तं पुरुषसूक्तं परं मृत्योऽनुपरेहीति आयुष्यसूक्तं पावमानं शिवसङ्कल्पं महाशान्ति च जप्त्वा अभिषेककालीनवस्त्रमाचार्याय दत्त्वा सालङ्कारां गां च दत्त्वा दशदानानि विप्रेभ्यो दत्त्वा सुवर्णदान च कृत्वा आज्यावलोकन तिलदान ब्राह्मणभोजनसङ्कल्पं आशीर्ग्रहणं देवताभिवादनं च कृत्वा कर्मेश्वरार्पण कृत्वा बन्धुजनैः सह भुंञ्जीतेति शौनकोक्ता उग्ररथशान्ति. । देशकाल० अमुकगोत्रोत्पन्नस्य अमुकशर्मणः मम जन्मत. सप्ताष्टषष्ट्यब्द-कालनिमित्तदुःस्वप्नदन्तरोगदृष्टिमान्द्यछायाविकृतिध्रुवादिनक्षत्रदर्शनभूतपिशाचादि - नानाविध-शारीरक्लेशापमृत्यमहोपपीडाराजभयादि - सकलारिष्टनिरसनपूर्वकदीर्घायुरारोग्यैश्वर्यसम्पत्प्राप्त्या-दिसदमीप्सितसिद्धद्वारा श्रीमार्कण्डेयादिदेवताप्रीत्यर्थं सग्रहमखामुग्ररथशान्तिं करिष्ये । श्रीगजा-ननार्पणमस्तु।

Linked texts (1)