History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c91.129
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c91.129
- Language
- English
v7.c91.129
¹⁵³⁴ न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः। यदार्तजन्तुनिर्वाणदानात्स्यादिति मे मतिः॥ यज्ञदानतपांसीह परत्र च न भूतये। भवन्ति तस्य यस्यार्तपरित्राणे न मानसम्॥ मार्कण्डेय 15. 57 and 62; प्राणिनामुपकाराय यद्येवेह परत्र च। कर्मणा मनसा वाचा तदेव मतिमान् वदेत्॥ विष्णु III. 12. 45; परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तस्य सम्पदः स्युः पदे पदे॥ तीर्थस्नानैर्र्न सा शुद्धिर्बहुदानैर्न तत्फलम् । तपोभिश्चोग्रैस्तत्प्राप्यमुपकृत्य यदाप्यते॥ परिनिर्मथ्य वाग्जालं निर्णीतमिदमेव हि । नोपकारात्परो धर्मो नापकारादघं परम्॥ स्कन्द, काशीखण्ड 6 4-5 and 7; जीवितं सफलं तस्य यः परार्थोद्यतः सदा। अग्निशपो रविः पृथ्वी धान्यानि विविधानि च। परार्थे वर्तनं तेषां सतां चापि विशेषतः॥ ब्रह्म 125. 36-37.
Linked texts (4)
- Mārkaṇḍeyapurāṇa — Vyāsa, Sanskrit
- Viṣṇupurāṇa — Vyāsa, Sanskrit
- Brahmapurāṇa — Vyāsa, Sanskrit
- Skandapurāṇa — Vyāsa, Sanskrit