History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.115
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.115
- Language
- English
v7.c93.115
¹⁹³² स पुनः कथं जिज्ञासितव्यः। को धर्मः कथंलक्षणः। कान्यस्य साधनानि कानि साधनाभासानि किंपरश्चेति। तत्र को धर्मः कथंलक्षण इति एकेनैव सूत्रेण व्याख्यातम्... चोदनालक्षणो धर्मः इति। ... चोदना इति क्रियायाः प्रवर्तकं वचनमाहुः। आचार्यचोदित करोमीति हि दृश्यते। लक्ष्यते येन तल्लक्षणम्। धूमो लक्षणमग्नेरिति हि वदन्ति। तया यो लक्ष्यते सोऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे। शाबरभाष्य on I. 1 2; again on II 1 1 'चोदना च क्रियाया अभिधायकं वाक्यं वाक्ये च पदानामर्थाः।', श्लोकवा. 'तेन प्रवर्तकं वाक्यं शास्त्रेऽस्मिंश्चोदनोच्यते' चोदनासूत्र v 3), तत्र यो धर्मः इत्युद्दिश्य स चोदनालक्षणश्चोदनाप्रमाण इति प्रमाणवचन इति प्रमाणवचनव्यक्तिः। यश्चोदनालक्षण इत्युद्दिश्य स धर्म इति स्वरूपवचनव्यक्तिः।