History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c94.91
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c94.91
- Language
- English
v7.c94.91
²²⁶¹ सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः सम्भवहेतुरव्यक्तं नाम । तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम् । सुश्रुत० I 3 ; तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव तल्लिङ्गाच्च महतस्तल्लक्षण एवाहङ्कार उत्पद्यते स त्रिविधो वैकारिकस्तैजसो भूतादिरिति । सुश्रुत I 4. तत्र बुद्धीन्द्रियाणां शब्दादयो विषया. कर्मेन्द्रियाणां वचनादानानन्दविसर्गविहरणानि । सुश्रुत I. 5. अव्यक्तं महानहङ्कारः पञ्च तन्मात्राणि चेत्यष्टौ प्रकृतयः, शेषा षोडश विकारा. I. 6. तत्र सर्व एवाचेतन एष वर्गः, पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्तश्चेतयिता भवति । सत्यप्यचैतन्ये प्रधानस्य पुरुष कैवल्यार्थं प्रवृत्तिमुपदिशन्ति क्षीरादींश्चात्र हेतूनुदाहरन्ति । I. 8. compare with this last सां. कारिका 57 'वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥'.
Linked texts (2)
- Suśrutasaṃhitā — Suśruta & Nāgārjuna (siddha/alchemist), Sanskrit
- Sāṃkhyakārikā — Īśvarakṛṣṇa, Sanskrit