History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c95.245
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c95.245
- Language
- English
v7.c95.245
²⁵⁴⁰ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् । वे सू II. 3. 30, यावदयमात्मा संसारी भवति यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते तावदस्य बुद्ध्या संयोगो न शाम्यति । यावदेव चायं बुद्धद्युपाधिसम्बन्धस्तावज्जीवस्य जीवत्वं संसारित्वं च परमार्थतस्तु न जीवो नाम बुद्धयुपाधिसम्बन्धपरिकल्पितस्वरूपव्यतिरेकेणास्ति । न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्य- श्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते । नान्योतोस्ति द्रष्टा श्रोता मन्ता विज्ञाता (बृ. III. 7 23), नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ (छा VI. 8. 7 ), तत्त्वमसि (छा. VI 1. 6.), अहं ब्रह्मास्मि (बृ. I 4. 7.) इत्यादिश्श्रुतिशतेभ्यः ।.. अपि च मिथ्याज्ञान- पुरःसरोऽयमात्मनो बुद्धयुपाधिसम्बन्धः। न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्ति रस्तीत्यतो यावद् ब्रह्मात्मतानवबोधस्तावदयं बुद्धद्युपाधिसम्बन्धो न शाम्यति। शाङ्करभाष्य. Similarly on वे सू. I. 1 5. शाङ्करभाष्य says 'सत्यं, नेश्वरादन्यः संसारी, तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यत एव, घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्नः'
Linked texts (3)
- Chāndogyopaniṣad — Sanskrit
- Brahmasūtra — Bādarāyaṇa, Sanskrit
- Bṛhadāraṇyakopaniṣad — Sanskrit