Early History of the Vaishnava Faith and Movement in Bengal, from Sanskrit and Bengali Sources c11.s5.115
Early History of the Vaiṣṇava Faith and Movement in Bengal, from Sanskrit and Bengali Sources c11.s5.115
- Language
- English
c11.s5.115
श्रीराधाप्राणवन्धोश्चरणकमलयोः केशशेपायगम्या
या साध्या प्रेमसेवा व्रजचरितपरैर्गाढलौल्यैकलभ्या।
सा स्वात्माप्ता यथा तां प्रथयितुमधुना मानसीमस्य सेवां
भाव्यां रागाध्वपन्थैर्व्रजमनु चरितं नैल्यकं तस्य नौमि॥१
कुञ्जाद्रोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां
प्रातः सायं च लीलां विहरति सखिभिः सङ्गरे चारयन् गाः।
मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्वापराह्ने
गोष्ठं याति प्रदोषे रमयति सुहृदो यः स कृष्णोऽवतान्नः॥२
रात्र्यन्ते त्रस्तवृन्देरितबहुविरवैर्वोधितौ कीरसारी-
पदैह्रैह्रैह्रैरपि सुखशयनादुत्थितौ तौ सखीभिः।
दृष्टौ दृष्टौ तदात्वोदिततिललितौ कुक्कु टीगीःसशङ्कौ
राधाकृष्णौ सतुण्णावपि निजनिजधाम्भ्यात्ततल्पौ स्मरामि॥३