Early History of the Vaishnava Faith and Movement in Bengal, from Sanskrit and Bengali Sources c11.s5.116
Early History of the Vaiṣṇava Faith and Movement in Bengal, from Sanskrit and Bengali Sources c11.s5.116
- Language
- English
c11.s5.116
राधां स्नातविभूषितां व्रजपयाहतां¹ सखीभिः प्रगे तद्व हे विहितान्नपाकरचनां कृष्णावशेषाशनाम्। कृष्णं वृद्धमवासधेनुसदनं निर्व्यूहगोदोहनं सुस्नातं कृतभोजनं सहचरैस्तां चाथ तं चाश्रये ॥४ पूर्वाह्णे धेनुमित्रैर्विपिनमनुसुतं गोष्ठलोकानुयातं कृष्णं राधातिलोलं तदभिसृतिकृते प्राप्तकुण्डतीरम्। राधां चालोक्य कृष्णं कृतगृहगमनामायर्यार्चनायै² दिष्टां कृष्णप्रवतैं प्रहितनिजसखीत्वंनेतां स्मरामि ॥५ मध्याह्नेऽन्योन्यसङ्गोदितविविधविकारादिभूषाप्रमुग्धौ वाम्योत्कण्ठातिलोलौ स्मरमललिताचालिनर्माप्तसातौ। दोलारण्याम्बुवंशीहृतिरतिमधुपानार्कपूजादिलीलौ राधाकृष्णौ सतृष्णौ परिजनघटया सेव्यमानौ स्मरामि ॥६ श्रीराधां प्राप्तगेहां निजरमणकृते क्लप्तनानोपहारां सुस्नातां रम्यवेशां प्रियमुखकमलालोकपूर्णप्रमोदाम्। कृष्णं चैवापराह्णे व्रजमनु चरितं धेनुवृन्दैर्वयस्यैः श्रीराधालोकतृप्तं पितृमुखमिलित मातृमृष्यं स्मरामि ॥७ सायं राधां स्वसख्या निजरमणकृते प्रेषितानेकभोज्यां सख्यानीते सशेपाशनमुदितहृदां तां च तं च व्रजेन्द्रम्। सुस्नातं रम्भवेशं गृहमनु जननीलालितं प्राप्तगोष्ठं निर्व्यूहश्रेणिदोहं स्वगृहमनु पुनर्भक्तवन्तं स्मरामि ॥८ राधां सालीगणाम्तामसितसितनिशायोग्यवेशां प्रदोषे दूत्या वृन्दोपदेशादभिसृतयमुनातीरकल्यागकुञ्जम्। कृष्णं गोपैः सभायां विदितगुणिकलालोकनं स्निग्धमात्र यत्नादानीय संशायितमथ निभृतं प्राप्तकुञ्जं स्मरामि ॥९