Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c8.s5.13

A Constructive Survey of Upanishadic Philosophy c8.s5.13

Language
English

c8.s5.13

6 न्यग्रोधफलमत आहरेति। इदं भगव इति। भिन्धीति। भिन्नं भगव इति। किमत्र पश्यसीति। अण्व्य इवेमा धाना भगव इति। धानानामेकां भिन्धीति। भिन्ना भगव इति किमत्र पश्यसीति न किंचन भगव इति। तं होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्य एषोऽणिम्न एवं महान्न्यग्रोधस्तिष्ठतीति। श्रद्धत्स्व सोम्येति। स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्व- मसि श्वेतकेतो इति। छां. VI. 12.

Linked texts (1)