Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c8.s5: Sources V

A Constructive Survey of Upanishadic Philosophy c8.s5

Language
English

Sources V

c8.s5.1

उपकोसलो ह वै सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्य ह द्वादशवर्षाण्यग्नीन्परिचचार । स ह स्मान्यानन्तेवासिनः समावर्तयस्तं ह स्मैव न समावर्तयति । तं जाबालोवाच

c8.s5.2

ततो ब्रह्मचारी कुशलमभ्रान् परिचचारीन् मा त्वामग्नः परि- प्रवोचन् प्रब्रह्मस्मा इति तस्मै हाम्रोच्यैष प्रवासांचक्रे ।...। अथ हाम्नयः समुदिरे ततो ब्रह्मचारी कुशलं नः पर्यचारी- च्छन्तास्मै प्रब्रहामेति तस्मै होचुः ।...। अथ हैनं गार्हपत्यो- नुशशास पृथिव्यग्निरन्नमादित्य इति । य एष आदित्ये पुरुषो दृश्यते सोहमस्मि स एवाहमस्मीति ।...। अथ हैनं अन्वाहार्यपचमनोनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति । य एष चन्द्रमसि पुरुषो दृश्यते सोहमस्मि स एवा- हमस्मीति ।...। अथ हैनं आहवनीयोनुशशास प्राण आकाशो द्यौर्विद्युदिति । य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ।...। ते होचुरुपकोसल एष सोम्य तेऽस्मद्विद्या आत्मविद्या च आचार्यस्तुते गतिं धकेत्याजगाम हास्याचार्यः । तमाचार्योऽभ्युवाद उपको- सल ३ इति । भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं भाति कोनु त्वामनुशशासेति ।...। य एषोऽ- क्षिणि पुरुषो दृश्यत एष आत्मेति होवाच एतदमृतमभय- मेतद् ब्रह्मेति ।...। एतं संयद्वाम इत्याचक्षत...एष उ एव वामनीः...एष उ एव भामनीः सर्वेषु लोकेषु भाति य एवं वेद ।

c8.s5.3

छां. IV. 10. 15.

c8.s5.4

2 (a) अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु इदं वाव तद्यदिदमस्मि- न्नन्तःपुरुषे ज्योतिस्तस्यैषा दृष्टिः यत्र एतद अस्मिन् शरीरे संस्पर्शनोष्माणं विजानाति । तस्यैषा श्रुतिर्यत्रैत- त्कर्णावपिगृह्य निनदमिध नदथुरिव अग्नेरिव ज्वलत उप- शृणोति । तदेतदृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद ।

c8.s5.5

छां. III. 13.

c8.s5.6

(b) अन्यत्राप्युक्तम् । अयमग्निर्विश्वानरो योऽयमन्तःपुरुषे । येनेद- मन्नं पच्यते । यदिदमद्यते तस्यैष घोषो भवति । यमेतत्कर्णौ- पपिधाय शृणोति ।

c8.s5.7

मै. II. 6.

c8.s5.8

3 अथ ह वै गार्ग्यो बालाकिरमूढः संस्पष्ट भास...स हाजातशत्रुं काश्यमेत्योवाच ब्रह्म ते प्रब्रवाणीति । तं होवाच- जातशत्रुः सहस्रं ददास्त एतस्यां वाचि । स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तेमेवाहमुपाल इति । चन्द्रमसि विद्युति स्तनयित्नौ वायौ आकाशे अग्नौ अप्सु आदर्श छायायां प्रतिश्रुत्काया शब्दे शरीरे दक्षिणेऽक्षिणि सव्येऽक्षिणि । तत उ ह बालाकिस्तूष्णीमास ।...तं होवाचाजातशत्रुः...एहि ध्येव त्वां ज्ञापयिष्यामि । तं ह पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमीयतुस्तं हाजातशत्रुरामन्त्रयांचक्रे बृहत्पाण्डरवासः सोम राजन्निति । कौ. IV. १-१८; also बृ. II. १. १-१५.

c8.s5.9

४ (a) यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्ति अभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । तै. III. १.

c8.s5.10

(b) तज्जलानिति शान्त उपासीत । छां. III. १४. १.

c8.s5.11

५ (a) ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्त । अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तद्वैषां विजज्ञौ । तेभ्यो ह प्रादुर्भूव तन्न व्यजानन्त किमिदं यक्षमिति । तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति । तथेति । तदभ्यद्रवत् तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम् । स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति । अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति । तथेति । तदभ्यद्रवत् तमभ्यवदत् कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद्यक्षमिति । अथेन्द्रमब्रुवन् मघवन् एतद्विजानीहि किमेतद्यक्षमिति । तथेति । तदभ्यद्रवत् तमभ्यवदत् । तस्मात्तिरोदधे । स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानां उमां हैमवतीं तां होवाच किमेत- घक्षिति। सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीय- ध्वमिति ततो हैव विदांचकार ब्रह्मेति।... तस्माद्वा इन्द्रो- ऽतितरामिवान्यान्देवान् स ह्येनद्विदे पस्पर्श स ह्येनत् प्रथमो विदांचकार ब्रह्मेति। तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा ३ इतीति न्यमोमिषदा ३ इति... यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यनीकं संकल्पः। क. III. IV.

c8.s5.12

(b) न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो- ऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥ क. II. 5. 15.

c8.s5.13

6 न्यग्रोधफलमत आहरेति। इदं भगव इति। भिन्धीति। भिन्नं भगव इति। किमत्र पश्यसीति। अण्व्य इवेमा धाना भगव इति। धानानामेकां भिन्धीति। भिन्ना भगव इति किमत्र पश्यसीति न किंचन भगव इति। तं होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्य एषोऽणिम्न एवं महान्न्यग्रोधस्तिष्ठतीति। श्रद्धत्स्व सोम्येति। स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्व- मसि श्वेतकेतो इति। छां. VI. 12.

c8.s5.14

7 (a) अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय नैतं सेतुमहोरात्रे तरतः न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्। छां. VIII. 4. 1.

c8.s5.15

(b) एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सर इति विधृतास्तिष्ठन्ति, एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो- ऽन्या नद्यः स्यन्दन्ते श्वेतभ्यः पर्वतेभ्यः प्रतीच्योऽन्याः। बृ. III. 8. 9.

c8.s5.16

8 (a) अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति त्रयश्च त्री शता, त्रयश्च त्री सहस्रेत्युमिति होवाच। कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदिति होवाच।

c8.s5.17

कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच ।... कतम एको देव इति... पृथिव्यैव यस्यायतनमग्निलोको मनो ज्योतिः यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम् ।

c8.s5.18

(b) एको हि रुद्रो न द्वितीयाय तस्थुर्य इमाँल्लोकानिशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति संक्षुकोपान्तकाले संक्षुज्य विश्वा भुवनानि गोपाः ॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देय एकः ॥ श्वे. III. 2. 3.

c8.s5.19

(c) स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकालो गुणी सर्वविद्यः । तेनेशितं कर्म विवर्तते ह पृथ्व्यप्तेजोऽनिलखानि चिन्त्यम् ॥... आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः । तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ॥... तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥ न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥..॥ एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ श्वे. VI. 1-12.

c8.s5.20

9 (a) यो देवोऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश । य ओषधिषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥

c8.s5.21

स एष इह प्रविष्ट आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये तं न पश्यन्ति ।

c8.s5.22

लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति । स ह तथा चकार । तं होवाच यद्योषा लवणमुदकेऽवधायाङ्ग तदाहरेति तद्वामृश्य न विवेद यथा विलीनमेव । अङ्ग अस्य अन्तादाचामेति कथमिति लवणमिति । मध्यादाचामेति कथमिति लवणमिति । अन्तादाचामेति कथमिति । लवणमिति । अभिप्राश्यैतदथ मोपसीदथा इति । तद्ध तथा चकार । तच्छश्वत्संर्वतते । तं होवाचात्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति । स य एषोऽणिमा..तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो । छां. VI. 13. 1-3.

c8.s5.23

(b) सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतांतरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ क. II. 5-11.

c8.s5.24

(c) स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ श्वे. III. 14 ( also RV. X. 901 ).

c8.s5.25

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतांतरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतांतरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ क. II. 5. 9, 10.

c8.s5.26

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । श्वे. III. 9.

c8.s5.27

10 (a) यत्ते कश्चिदब्रवीत्तच्छृणुवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाण्ये ब्रूहीति..एकपाद्वा एतत्सम्नाडिति ।...। अब्रवीन्मे उवङ्कः शौल्वायनः प्राणो वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति ।...। अब्रवीन्मे गर्धार्ष्णः चक्षुर्वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति ।...। अब्रवीन्मे गर्धभीवीपितो भारद्वाजः श्रोत्रं वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति । ... । अब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति । ...। अब्रवीन्मे विदग्धः शाकल्यो हृदयं ब्रह्मेति...एकपाद्वा एतत्सम्नाडिति । (b) श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ... ॥ यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यत्प्राणेन न प्राणिति येन प्राणः प्राणियते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

c8.s5.28

II तद्योभये देवाश्च अनुबुबुधिरे...इन्द्रो है व देवानामि- प्रव्राज, विरोचनोऽसुराणां, तौ...समित्पाणी प्रजापति- ...काशामाजग्मतुः...तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच...योयं भगवोऽप्सु परि- ख्यायते यश्चायमादर्शे । ... । तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते...एष आत्मेति हो- वाच एतदमृतमभयमेतद्ब्रह्मेति । ... । ह शान्तहृदयौ प्रव- व्रजतुः । ... । शान्तहृदय एव विरोचनोऽसुरानाजगाम । ... अथ हेन्द्रोऽप्राप्यैव देवानिन्द्रं ददर्श यथैव खल्वयमिमं शरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृतः एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः...नाहमत्र भोग्यं पश्यामीति स समिपाणिः पुनरेयाय । ... । तस्मै (इन्द्राय) होवाच य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाच एतदमृत- मभयमेतद्ब्रह्मेति । स ह शान्तहृदयः प्रवव्राज स ह अप्रा- प्यैव देवानिन्द्रं ददर्श...अप्रियवेत्तेव भवति, अपि रो- दितीव जाहमत्रभोग्यं पश्यामीति समिपाणिः पुनरेयाय । ... । तस्मै (इन्द्राय) होवाच तद्यत्रैतत् सुप्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच...स ह शान्तहृदयः प्रव- व्राज स ह अप्राप्यैव देवानिन्द्रं ददर्श न खलु अयमेवं संप्रत्यात्मानं जानात्यहमस्मीति नो एव इमानि भूतानि विनाशमेवापीतानि भवन्ति नाहमत्र भोग्यं पश्यामीति स समि- पाणिः पुनरेयाय । ... । तस्मै (इन्द्राय) होवाच । मघवन् मर्त्यं वा इदं शरीरमात्तं मृत्युना । तदस्य अमृतस्य अशरी- रस्य आत्मनोऽधिष्ठानम्। आत्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति। अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः। अशरीरो वायुरभ्रं विद्युत् स्तनयित्नुः अशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समत्थाय परं ज्योतिरुपसंपद्य स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः।

c8.s5.29

12 (a) सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन्। तै. II. 1.

c8.s5.30

(b) एष ब्रह्मा एष इन्द्रः...एते सर्वे देवा इमानि च पंचमहाभूतानि...अंडजानि च आरुजानि च स्वेदजानि च उद्भिज्जानि ।...। यत्किंचेदं प्राणि जंगमं च पतत्रि च यच्च स्थावरम्। सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म। ऐ. III. 3.

c8.s5.31

13 (a) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। तै. II. 4.

c8.s5.32

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि । के. I. 3.

c8.s5.33

यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानां विज्ञातमविजानताम्॥ केन. II. 3.

c8.s5.34

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः॥ क. I. 27.

c8.s5.35

(b) स वेत्ति वेद्यं न च तस्यास्ति वेत्ता। तमाहुरग्र्यं पुरुषं महान्तम्। श्वे. III. 19.

c8.s5.36

येनेदं सर्वे विजानाति तं केन विजानीयात्। विज्ञातारमरे केन विजानीयादिति।

c8.s5.37

न दृष्टेर्दृष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुयार्न मतेर्मंतारं मन्वीथा न विज्ञातर्विज्ञातारं विजानीयाः । बृ. III. 4. 2.

c8.s5.38

अदृष्टे द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञाततो विज्ञाता, नान्योऽतोस्ति द्रष्टा, नान्यतोस्ति श्रोता, नान्यतोस्ति मंता, नान्यतोऽतोऽस्ति विज्ञाता । बृ. III. 7. 23.

c8.s5.39

(c) याज्ञवल्क्य, किंज्योतिरेवायं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाच आदित्येनैवायं ज्योतिषास्ते पर्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य । अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति चंद्रमा एवास्य ज्योतिर्भवतीति...। अस्तमित आदित्ये याज्ञवल्क्य चंद्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति अग्निरैवास्य ज्योतिर्भवतीति..। अस्तमित आदित्ये याज्ञवल्क्य चंद्र- मस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति आत्मै- वास्य ज्योतिर्भवतीति । बृ. IV. 3. 2-6.

c8.s5.40

14 (a) आत्मा वा अरे द्रष्टव्यः । बृ. II. 4. 5.

c8.s5.41

(b) आत्मानं विजानीयादयमस्मीति पुरुषः । बृ. IV. 4. 12.

c8.s5.42

(c) अयमात्मा ब्रह्म । बृ II. 5. 19.

c8.s5.43

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ शांतिः ॥

c8.s5.44

(d) अहं ब्रह्मास्मि । बृ. I. 4. 10.

c8.s5.45

तत्त्वमसि । छां. VI. 8. 7.

c8.s5.46

(e) सर्वं खल्विदं ब्रह्म ।

c8.s5.47

CHAPTER VI

c8.s5.48

THE ETHICS OF THE UPANISHADS

c8.s5.49

1. After a discussion in the last chapter of the central metaphysical position reached in the Upanishads, and after a suggestion that that position is to be attained more by the way of mysticism than by the way of thought, it would behove us for a while to bestow our attention on the moral problem in the Upanishads, which might easily be seen to be connected with their metaphysics on the one hand, and mysticism on the other. The problem of the relation of metaphysics and morality has been a much-debated problem from very ancient times; nor is the problem of the relation of morality and mysticism in any way a less important problem. For, just as it is hard to decide as to which of the two—metaphysics and morality—should receive the primacy in the discussion of the development of man's consciousness as a whole, similarly, it is equally hard to decide which of the two—morality and mysticism—plays a more important part in that development. If we take into account, however, the integrity of man's consciousness as a whole, it would seem absolutely impossible, in the interest of the highest development of which man's consciousness is capable, to sunder the intellectual from the moral, as the moral from the mystical element. Intelligence without the moral backbone might only degenerate into the cleverest forms of chicanery, and a mystic without morality, if such a one were possible, might only be a hideous creature who is a blot on the spiritual evolution of man. And, again, just as morality, to be ratiocinative, must be firmly linked to the intellect, similarly for its consummation, it must end in the mystical attitude, which alone is the goal and end of the life of man. In short, Metaphysics, Morality and Mysticism are as inseparable from each other in the interest of the highest spiritual development of man, as intellect, will, and emotion are inseparable for his highest psychological development. It would thus seem necessary for a while to linger on the discussion of the moral problem in the Upanishads, as the connecting link between the metaphysical position reached therein and the final mystical realisation taught in the Upanishads.

c8.s5.50

2. At a time when moral reflection in other lands had hardly reached even the gnomic stage, it is interesting to note that, in the Upanishads, we have a fairly good discussion of all the more important ethical problems; while, in certain cases at least, the solution reached might be contemplated upon with great profit even by present-day moralists, because the solution which the Upanishads attempt is a solution which is based upon the eternal truths of Ātmanic experience. It is true that in the Upanishads we have not a very full discussion of the theories of the moral standard as apart from the theories of the moral ideal, inasmuch as thought is required to be necessarily more abstract in the discussion of the former, while in that of the latter it has to deal with the concrete problem of the end of human life. In the course of the present chapter, we shall first discuss the rudiments of the theories of the moral standard as we find them in the Upanishads, and after a consideration of the limitations of the theories so advanced, we shall proceed to a discussion of the theories of the moral ideal. Of these latter, two at least are specially noteworthy—the Doctrine of Beatificism, and the Doctrine of Self-realisation. After having considered these theories, we shall next go on to the discussion of practical ethics in the Upanishads, and thus survey the lists of virtues enumerated in the various Upanishads, considering more especially the virtue of Truth. It is undoubtedly true that in the discussion of the practical side of ethics, the Upanishadic period is surpassed by the Neo-Upanishadic period, for there the metaphysical interest having waned, interest in practical conduct got the upper hand. Then, after a short discussion of the problem of the freedom of the will as considered in the Upanishads, we shall conclude the chapter by a short portrayal of the ideal of the Upanishadic Sage, bringing out the contrast between the Upanishadic Sage on the one hand and the Stoic and Christian Sages on the other.

Linked texts (10)