Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c8.s5.22

A Constructive Survey of Upanishadic Philosophy c8.s5.22

Language
English

c8.s5.22

लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति । स ह तथा चकार । तं होवाच यद्योषा लवणमुदकेऽवधायाङ्ग तदाहरेति तद्वामृश्य न विवेद यथा विलीनमेव । अङ्ग अस्य अन्तादाचामेति कथमिति लवणमिति । मध्यादाचामेति कथमिति लवणमिति । अन्तादाचामेति कथमिति । लवणमिति । अभिप्राश्यैतदथ मोपसीदथा इति । तद्ध तथा चकार । तच्छश्वत्संर्वतते । तं होवाचात्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति । स य एषोऽणिमा..तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो । छां. VI. 13. 1-3.