Pramāṇa · Search · About · API

Education in Ancient India c10.s4.7

Education in Ancient India c10.s4.7

Language
English

c10.s4.7

आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ १७ ॥
आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् ।
न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाचरेत् ॥ १८ ॥
शिक्षयन्तमदुष्टं य आचार्यं संपरित्यजेत् ।
बलाद्वासयितव्यस्त्याद्वबन्धौ च सोर्हति ॥ १९ ॥
शिक्षितोपि कृतं कालमन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ २० ॥
गृहीतशिल्पः समये कृत्वाचार्यप्रदक्षिणम् ।
शक्तश्चानुमान्यैनमन्तेवासी निवर्तते ॥ २१ ॥
वेतनं वा यदि कृतं ज्ञात्वा शिष्यस्य कौशलम् ।
अन्तेवासी समादद्याच्चान्यस्य गृहे वसेत् ॥ २२ ॥
नारदस्मृति, शुश्रूषाभ्युपगमप्रकरणम् ।

Linked texts (1)