Pramāṇa · Search · About · API

Minerals and Metals in Ancient India v2.c45.s12.7

Minerals and Metals in Ancient India v2.c45.s12.7

Language
English

v2.c45.s12.7

*drutadrāvamavisphotam cikkanam mrdu tacchubham* | *hatam yatprasaredduḥkhāt tatkuntham madhyamam smṛtam* || 71-72 || अथ तीक्ष्णम्— . . . षड्विधं तीक्ष्णमुच्यते || 75 || परुषं पोगरोन्मुक्तं भङ्गे पारदवच्छवि। नमने भङ्गुरं यत् तत् खरलोहमुदाहृतम्||76|| वेगभङ्गुरधारं यत् सारलोहं तदीरितम्||78|| *atha tīkṣṇam* — . . . *ṣaḍvidhaṃ tīkṣṇamucyate* || 75 || *paruṣaṃ pogaronmuktaṃ bhaṅge pāradavacchavi* | *namane bhaṅguraṃ yat tat kharalohamudāhṛtam* || 76 || *vegabhaṅguradhāraṃ yat sāraloham tadīritam* || 78 || अथ कान्तम्— भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा। एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम्।। एकद्वित्रिचतुःपञ्चसर्व्वतोमुखमेव तत्। पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात् पृथक् पृथक्।।84-85।। भ्रामयेल्लोहजातं तु तत् कान्तं भ्रामकं मतम्।। चुम्बयेच्चुम्बकं कान्तं कर्षयेत् कर्षकं तथा। साक्षाद्यदद्रावयेल्लोहं तत् कान्तं द्रावकं भवेत्।। तदरोमकान्तं स्फुटितादयतो रोमोद्गमो भवेत्।।88-89।। मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते।। क्षेत्रं खात्वा ग्रहीतव्यं तत्प्रयत्लेन धीमता। मारुतातपविक्षिप्तं वर्जयेन्नात्र संशयः।।92-93।। पात्रे यस्य प्रसरति जले तैलबिन्दुर्न लिप्तं गन्धं हिङ्गु त्यजति च तथा तिक्तां निम्बकल्कः।। पाके दुग्धं भवति शिखराकारकं नैति भूमिं कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत्।।94।। *atha kāntam* — *bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā* | *evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam* || *ekadvitricatuḥpañcasarvvatomukhameva tat* || *pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak* || 84-85 ||

Linked texts (1)