Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.11

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.11

Language
English

v1.c25.s2.11

स्थाल्वन्तरे कपोताख्यं पुटं कर्षाग्निना सदा । यन्त्रस्याध: करीषाग्निं दद्यात्तीव्राग्निमेव च ॥ एवन्तु त्रिदिनं कुर्यात्तप्ततोये विमर्दयेत् ॥ न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् ॥ ऊर्द्धं वङ्गिरधश्चापो मध्ये तु रससङ्ग्रह: । मूषायन्त्रमिदं देवि जारयेद्गन्धकादिकम्² ॥ गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् । चतुरङ्गुलदीर्घां³ च मूषिकां मृन्मयीं दृढाम् ॥

Linked texts (1)