Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2: Extracts from Rasarnava

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2

Language
English

Extracts from Rasarnava

v1.c25.s2.1

रसाणर्वाद्धृताः श्लोकाः ।

v1.c25.s2.2

श्रीभैरव उवाच—

v1.c25.s2.3

रसोपरसलोहानि वसनं काञ्जिकं विडम् ।
धमनी लोहयन्त्राणि खल्लपाषाणमर्हकम् ॥
कोष्ठिका वक्रनालञ्च गोमयं सारमिन्धनम् ।¹
मृन्मयानि च यन्त्राणि मुसलोलूखलानि च ॥
सड़्सीयन्त्रसंदंशं मृत्पात्रायःकरोटकम् ।²
प्रतिमानानि च तुला छेदननि कपोत्पलम् ।³ ॥
वंशनाली लोहनाली मूषामार्गास्तथौषधी ।
स्नेहाम्ललवणक्षारविषाख्युपविषाणि च ॥

v1.c25.s2.4

¹ Cf. कोष्ठिका वक्रनालञ्च गोमयं सारमिन्धनम् । Rr. by Nág. Ch. IV.

v1.c25.s2.5

² M. Ms. reads मण्डपीपट्टसंदंशं मृत्पात्रायःकमोरकम् ।

v1.c25.s2.6

³ M. Ms. has कपोत्पलम् ।

v1.c25.s2.7

एवं संगृह्य सम्भारं कल्पयोगं समाचरेत् ॥ द्रवद्रव्येण भाण्डस्य पूरितार्द्धोदरस्य च¹ । मुखे तिर्य्यक्कते भाण्डे रसं सूत्रेण लम्बितम् । तं खेदयेत्तत्र गतं दोलायन्त्रमिति स्मृतम् ॥ लोहमूषाद्वयङ्कृत्वा द्वादशाङ्गलमानतः । ईषच्छिद्रां छिद्रमितां² नेकां गन्धकसंयुताम् ॥ मूषायां रसयुक्तायामन्स्यां तां प्रवेशयेत् । तोयं स्यात्सूतकस्याध ऊर्द्धाधो वह्निदीपनम् ॥ रसोत्करसं भद्रे यत्नतो वस्त्रगालितम् । दापयेच्चतुरं यत्नादाप्लावय रसगन्धकौ ॥ स्थालिकायां निधायोर्द्धं स्थालीमन्यां दृढां कुरु । सन्धिं विलेपयेद्यत्नान्मृदा वस्त्रेण चैव हि³ ॥

v1.c25.s2.8

¹ K. Ms. reads भाण्डञ्च पूरिताईरसेन च । The reading adopted in the text is that of the M. Ms., which quite agrees with R. R. S. (see p. 73, Poona ed.)

v1.c25.s2.9

² M. Ms. reads ईषाच्छिद्रांन्वितामेकाम् ।

v1.c25.s2.10

³ Rr. by Nág. reads मध्ये तु रससंस्थितः ।

v1.c25.s2.11

स्थाल्वन्तरे कपोताख्यं पुटं कर्षाग्निना सदा । यन्त्रस्याध: करीषाग्निं दद्यात्तीव्राग्निमेव च ॥ एवन्तु त्रिदिनं कुर्यात्तप्ततोये विमर्दयेत् ॥ न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् ॥ ऊर्द्धं वङ्गिरधश्चापो मध्ये तु रससङ्ग्रह: । मूषायन्त्रमिदं देवि जारयेद्गन्धकादिकम्² ॥ गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् । चतुरङ्गुलदीर्घां³ च मूषिकां मृन्मयीं दृढाम् ॥

v1.c25.s2.12

(1) M. Ms. has सारयेत ।
(2) गगनादिकम् in R. S. S. (p. 74, Poona ed.) Couplets लोहमूषायं . . . . गच्छति कुत्रचित् have been borrowed by R. R. S. in the Book on apparatus.
(3) Rr. by Nág. reads-- चतुरङ्गुलदैर्घ्येण विस्तारण च ताङ्गलम् । मूषान्तु मृन्मयीं कुर्यात् सहतां वर्तुलां बुध: ॥ विंशभागानि लोहस्य भागमेकन्तु गुग्गुल: । सूक्ष्मं पेषायत्वा तु तीयं दत्त्वा पुन: पुन: ॥ मूषालेपं दृढं बद्धा लोहार्थं मृत्तिकां बुध: । कुर्यात्तूषाग्निं भूमौ च मृदुस्वेदेन खेदयेत् ॥

v1.c25.s2.13

अङ्कुलमध्यविस्तारं वर्त्तुलं कारयेन्मुखम् । लोहस्य¹ विंशतिर्भागा एकभागस्तु गुग्गुलुः ॥ सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात्पुनः पुनः । मूषालेपं ततः कुर्य्यात्तिलपिष्टञ्च निक्षिपेत्² ॥ कुर्य्यात्तुषाग्निं भूमौ च³ मृदुस्वेदन्तु कारयेत् । अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥ जारणे मारणे चैव रसराजस्य रञ्जने । यन्त्रमेव परं कर्म यन्त्रविद्या महाबला ॥⁴ औषधिरहितस्यायं हठाद्यन्त्रेण वध्यते । तस्माद्यन्त्रबलञ्चैकं न विलम्ब्यं विजानता ॥ 3-24. खर्परं सिकताकारं कृत्वा तस्योपरि न्यसेत् ॥ अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् । पञ्चक्षारैस्तथा मूषैर्लवणैश्च विड़ैस्ततः । हंसपाकः स विज्ञातो⁵ यन्त्रतत्त्वार्थकोविदः ।

v1.c25.s2.14

¹ K. Ms. reads लोहस्य ।

v1.c25.s2.15

² K. Ms. has तिलपिष्टं सुनिचिपेत् ।

v1.c25.s2.16

³ M. Ms. reads तुषकर्षाग्निना भूमौ ।

v1.c25.s2.17

⁴ M. Ms. has यन्त्रौषधं परं कर्म यन्त्रौषध्या महारसम् ।

v1.c25.s2.18

⁵ M. Ms. reads हंसपादन्तु विख्यातः ।

v1.c25.s2.19

कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका ॥ आद्या श्रेष्ठा कनिष्ठा च मध्यमा मध्यमा मता ॥ दग्धधान्यतुषोपेता मृत्तिका कोष्ठकारिका² । वक्रनालकृते वापि शस्यते सुरसुन्दरि ॥ गौरा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका । अजाखानां मलं दग्धं दग्धा मृत्कृष्णतां गता ॥ वासकस्य च पत्राणि वल्मीकस्य मृदा सह । पेषयेदग्नितोयेन अनेन वज्रतां गतम् ॥ मर्येत्तेन बध्नीयाद्वक्रनालञ्च कोष्ठकम् ॥ गौरा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ॥ चिरमङ्गारकः किट्टं वज्रेणापि न भिद्यते । दग्धाङ्गारस्य षड्भागा भागेका कृष्णमृत्तिका ॥ चिरमङ्गारकः किट्टं वज्रमूषा प्रकीर्त्तिता ॥ तुषदग्धसमा दग्धमृत्तिका चतुरंशिका । घम्मपाषाणसंयुक्ता³ वज्रमूषा प्रकीर्त्तिता ॥

v1.c25.s2.20

² M. Ms. reads काष्ठकारिकाधौ ।

v1.c25.s2.21

³ M. Ms. has कुप्पापाषाणसंयुक्ता ।

v1.c25.s2.22

(1) M. Ms. has शुक्लकृष्ण ।
(2) M. Ms. reads काष्ठकारिकाधौ ।
(3) M. Ms. has कुप्पापाषाणसंयुक्ता ।

v1.c25.s2.23

¹ (Note: The original text has a superscript 1 in the first line, but no corresponding footnote at the bottom of the page. I will transcribe the mark as it appears in the text.)

v1.c25.s2.24

प्रकाशा चान्यमूषा च प्रकृतिर्द्विविधा स्मृता । प्रकाशमूषा देवेशि शरावाकारसंयुता ॥ द्रव्यनिर्वाहणे सा च वैदिकैः सुप्रशस्यते ॥ अन्यमूषा तु कर्त्तव्या गोस्तनाकारसन्निभा । पिधानकसमायुक्ता किञ्चिदुत्तानमस्तका ॥ पत्रलेपे तथा भागे² द्वन्द्वमेलापके तथा । सैवाच्छिद्रान्विता मध्ये गम्भीरा सारणोचिता ॥ मोचनतारस्य³ भागौ द्वौ इष्टकांशसमन्वितौ । मृद्भागास्तारशुद्धयर्थमुत्तमा वरवर्णिनि ॥ 29-46. आवर्तमाने कनके पोता तारे सिता शुभा ॥ शुल्वे⁴ नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरि ॥ वङ्गे ज्वाला कपोता च नागे मलिनधूमता ॥ शैले तु धूसरा देवि आयसे कपिलप्रभा ॥

v1.c25.s2.25

¹ M. Ms. reads सा चावैदिकैस्तु प्रशस्यते ।

v1.c25.s2.26

² M. Ms. has रङ्गे ।

v1.c25.s2.27

³ M. Ms. reads मोचनतारस्य ।

v1.c25.s2.28

⁴ K. Ms. has शुल्के, which seems to be incorrect.

v1.c25.s2.29

अयस्कान्ते धूमवर्णा सस्यके लोहिता भवेत् ॥ वज्रे नानाविधा ज्वाला सस्यके¹ पाण्डुरप्रभा ॥ न विस्फुलिङ्गा न च बुद्बुदाश्च यदा न रेखापटलं न शब्दः । मूषागतं रत्नसमं स्थिरञ्च तदा विशुद्धं प्रवदन्ति लोहम् ॥ षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं शुभम् । धातुसत्त्वनिपाताय कोष्ठकं वरवर्णिनि ॥ 49-57. इति श्रीपार्वतीपरमेश्वरसंवादे रसाणर्वे रस- संहितायां यन्त्रमूषाग्निवर्णनो नाम चतुर्थः पटलः ।

v1.c25.s2.30

¹ M. Ms. reads खसत्त्वे ।

v1.c25.s2.31

विक्षाराष्टकञ्चारो यवक्षारश्च सर्ज्जिका । तिलापामार्गकदलीपलाशशिगुमोचकाः । मूलार्द्रकचिञ्चाख्या वृक्षक्षाराः प्रकीर्त्तिताः ॥ V. 35-36. माक्षिकं विमलं शैलं² चपलो रसकस्तथा ।

v1.c25.s2.32

² K. Ms. has शिला ।

v1.c25.s2.33

सस्यको दरदश्चैव स्रोतोऽञ्जनमथाष्टकम्¹ । अष्टौ महारसाः ❊ ❊ ❊ ‖ VII. 2-3.

v1.c25.s2.34

¹ K. Ms. reads श्वेताञ्जनक्याष्टकम्, which is incorrect.

v1.c25.s2.35

क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च । कदलीकन्दसारेण भावितं माक्षिकं मुहुः । मूषायां मुञ्चति ध्मातं सत्त्वं सुवर्णनिभं मृदु ‖ 12-13.

v1.c25.s2.36

विमलं शिग्रुतोयेन काक्षीकासीसटङ्गणैः । वज्रकन्दसमायुक्तं भावितं कदलीरसैः । मौक्तिकात्सारसंयुक्तं धापितं मूकमूषया । सत्त्वं चन्द्रार्कसङ्काशं प्रयच्छति न संशयः ‖² 20-21.

v1.c25.s2.37

² विमलं शिग्रुतोयेन काक्षीकासीसटङ्गणैः । वज्रकन्दसमायुक्तं भावितं कदलीरसैः । मौक्तिकात्सारसंयुक्तं धमितं मूकमूषगम् । सत्त्वं चन्द्रार्कसङ्काशं ददाति नात्र संशयः ‖ Rr. by Nág. II. 35, 36.

v1.c25.s2.38

गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु प्रशस्यते । हेमाभश्चैव ताराभो विशेषाद्रसबन्धकः ‖

v1.c25.s2.39

श्लेषौ मध्यौ च लाक्षावच्छीघ्रद्रावौ तु निष्कलौ। वङ्गवद्द्रवते वङ्गो चपलस्तेन कीर्त्तितः॥ 26-27. मृत्तिकागुडपाषाणभेदतो¹ रसकस्त्रिधा॥ VII. 31. किमत्र चित्रं रसको रसेन,
* * * भावितः। क्रमेण भूत्वा तुरगेण रञ्जितः करोति शुल्कं² त्रिपुटेन काञ्चनम्॥³ VII. 34. ऊर्णालाक्षातथापथ्या-मूलताधूमसंयुतः। मूकमूषागतो धातष्टङ्कणेन समन्वितः॥ सत्त्वं कुटिलसङ्काशं मुञ्चत्यत्र न संशयः॥⁴ VII. 37-38.

v1.c25.s2.40

¹ M. Ms. has भेदकः।

v1.c25.s2.41

² M. Ms. reads गन्धम्!

v1.c25.s2.42

³ This sloka is exactly the same as it is in Rr. by Nág. I. 3.

v1.c25.s2.43

⁴ ऊर्णालाक्षातथापथ्या-मूलताधूमसंयुतः। क षागतो धातष्टङ्कणेन समन्वित : सत्त्वं कुटिलसङ्काशं पतति नात्र संशयः। Rr. by Nág. II. 31-32.

v1.c25.s2.44

(1) M. Ms. has भेदकः।
(2) M. Ms. reads गन्धम्!
(3) This sloka is exactly the same as it is in Rr. by Nág. I. 3.
(4) ऊर्णालाक्षातथापथ्या-मूलताधूमसंयुतः। क षागतो धातष्टङ्कणेन समन्वित : सत्त्वं कुटिलसङ्काशं पतति नात्र संशयः। Rr. by Nág. II. 31-32.

v1.c25.s2.45

सस्यकं ❊ ❊ ❊ ❊ शशशोणितमध्ये वा दिनमेकं निधापयेत् । तस्य चूर्णं महेशानि पादसौभाग्यसंयुतम्¹ ॥ करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् । मध्यस्थमन्धमूषायां ध्मापयेत्कोकिलात्रयम् ॥ इन्द्रगोपकसङ्काशं सत्त्वं पतति शोभनम् ॥ VII. 41-44. गोपित्तेन शतं वारान् सौराष्ट्रीं भावयेत्ततः ॥ धमित्वा पातयेत्सत्त्वं कामणञ्चातिगुह्यकम् ॥ VII. 72-73.

v1.c25.s2.46

¹ M. Ms. reads पादसान्भाग्यसंयुतम् ।

v1.c25.s2.47

❊ ❊ ❊ शृणु लोहान्यतः परम् । सुवर्णं रजतं ताम्रं तीक्ष्णवङ्गभुजङ्गमाः । लोहकं षड्विधं तच्च यथापूर्वं तदक्षयम् ॥ VII. 89-90. रसजं² क्षेत्रजञ्चैव लोहसङ्करजं तथा । त्रिविधं जायते हेम चतुर्थं नोपलभ्यते ॥ लोहानां मारणं वक्ष्ये समाहितमनाः शृणु । ❊ ❊ ❊ ❊ ❊

v1.c25.s2.48

² M. Ms. has रजसं, which is doubtful.

v1.c25.s2.49

(1) M. Ms. reads पादसान्भाग्यसंयुतम् ।
(2) M. Ms. has रजसं, which is doubtful.

v1.c25.s2.50

नास्ति तल्लोहमातङ्गो यत्र गन्धककेसरी । निहन्यान्मत्रमात्रेण यथा माक्षिककेसरी ॥ VII. 138-142.

v1.c25.s2.51

इति श्रीपार्वतीपरमेश्वरसंवादे रसार्णवे रस- संहितायां महारसोपरसलोहलक्षणसंस्कारनिर्णयो नाम सप्तमः पटलः ।

v1.c25.s2.52

श्रीभैरव उवाच — कासीसं सैन्धवं माक्षी सौवीरं व्योषगन्धकम् । सौवर्चलं व्योषका च मालतीरससम्भवः ॥¹ शिग्रूमूलरसैः सिक्तो विड़ोऽयं सर्व्वजारणः ॥² IX. 2-3.

v1.c25.s2.53

(1) M. Ms. has सर्ज्जिका and मालतीनीरससम्भवम् ।
(2) Cf. Rasakalpa II. 51-66.. Here व्योषगन्धकौ, सर्ज्जिका and रससंयुतैः seem to be correct.

v1.c25.s2.54

गन्धतालकसिन्धूत्यचूलिकाष्टङ्गणं तथा । क्षारैर्मूनैश्च विपचेदयं ज्वालामुखो विड्ः¹ ॥

v1.c25.s2.55

¹ K. Ms. reads अयं ज्वालामुखो विड्ः, which is grammatically incorrect.

v1.c25.s2.56

एवं संगृह्य सम्भारं रकर्मं समाचरेत् । तन्माचक्ष्व देवेशि किमप्यच्छ्रोतुमिच्छसि ॥

v1.c25.s2.57

IX. 9-20.

v1.c25.s2.58

इति श्रीपार्वतीपरमेश्वरसंवादे रससंहितायां विड्कथनो नाम नवमः पटलः ।

v1.c25.s2.59

काकमाची जया ब्राह्मी मार्जारी रक्तचित्रकः । मण्डूका मुद्गपर्णी च शृङ्गवेरं समाङ्गरम् ॥ टेवटाली शङ्खपुष्पी काकजङ्घा शतावरी । कुमारी भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः । शूलिनी सूर्य्यपर्णी च गोजिह्वा चोरकञ्जुकः ॥

v1.c25.s2.60

X. 52-54.

v1.c25.s2.61

तद्रसैः सर्व्वदा¹ पाल्यः सप्तधा निर्म्मलो भवेत् । यामेन² पिष्टिकां कृत्वा पातयेदूर्द्धपातने । वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ X. 55-56.

v1.c25.s2.62

कासीसतवरोन्मिश्रटङ्गणक्षारसंव्युतः । पूर्व्वभेषजयोगेन सूतकस्य गति क्षणात् ॥ XI. 24.

v1.c25.s2.63

सौवर्चलञ्च कासीसं सामुद्रं सैन्धवं तथा । आसुरी टङ्गणञ्चैव नवसारस्तथैव च ॥ कर्पूरञ्चैव माक्षीकं समभागानि कारयेत् ॥ सुह्यर्कदुग्धैर्देवेशि मूषालेपन्तु कारयेत् ॥ विडचूर्णं ततो दत्त्वा कनकं जारयेत्प्रिये ॥ XI. 83-86.

v1.c25.s2.64

नानावर्णं भवेत्सूतं विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि ॥ आर्द्रत्वं चपलत्वं³ च तेजो गौरवचापलम् ।

v1.c25.s2.65

(1) M. Ms. has मर्दितम् ।
(2) M. Ms. reads तामेण ।
(3) M. Ms. reads घनवम्, which is preferable.

v1.c25.s2.66

यस्यैतानि न दृश्यन्ते विद्यात्तं मृतसूतकम ॥¹ XII. 197-198.

v1.c25.s2.67

तीक्ष्णं नागं तथा शुल्वं रसकेन तु रञ्जयेत् । समस्तं जायते हेम कुष्माण्डकुसुमप्रभम् ॥ XII. 50.

v1.c25.s2.68

पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः ॥ XII. 78.

v1.c25.s2.69

भस्मसूतं पलैकञ्च पलमेकञ्च² गन्धकम् । पुटेन जायते भस्म सिन्दूरारुणसन्निभम् ॥ XIV. 81.

v1.c25.s2.70

मयूरग्रीवतुल्यञ्च कुङ्कुमं रसकं तथा । बालवत्सपुरीषञ्च विषं हालाहलं तथा ॥

v1.c25.s2.71

रक्तचित्रकचूर्णन्तु समभागानि कारयेत् । मर्येन्मध्यमाम्लेन छायाशुष्कञ्च कारयेत् ॥

v1.c25.s2.72

(1) Cf. आर्द्रवञ्च घनवञ्च चापत्यं गुरुतेजसः । यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम ॥ नानावर्णं भवेत्सूतं विहाय घनचापलम । लक्षणं दृश्यते यस्य मूर्च्छितं तं वदन्ति हि ॥ Rr. by Nág. IV.

v1.c25.s2.73

(2) M. Ms. has * * * * पलैकं पन्नगस्य च । ताम्रपात्रेण तं कृत्वा मर्दयेल्लोहमूषिना । मृदग्निना ततः पाच्यं यावन्नागेन मेलनम् ॥

v1.c25.s2.74

मधुना सह संयोज्य नागपत्राणि लेपयेत् ।
मूकूूषागतं ध्मातं नागं रञ्जयति क्षणात् ॥
अशोकपत्ररसेन सप्तवारं निषेचयेत् ।
अष्टाविंशतिकृत्वो वै तैले भूनागसम्भवे ॥
तन्नागं जायते दिव्यं देवाभरणभूषणम् ॥

v1.c25.s2.75

XVII. 70-74.

v1.c25.s2.76

Extracts from Rasaratnasamuchchaya.

v1.c25.s2.77

B. = Benares Manuscript. K. = Kásmír Manuscript.

Linked texts (2)