Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.13

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.13

Language
English

v1.c25.s2.13

अङ्कुलमध्यविस्तारं वर्त्तुलं कारयेन्मुखम् । लोहस्य¹ विंशतिर्भागा एकभागस्तु गुग्गुलुः ॥ सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात्पुनः पुनः । मूषालेपं ततः कुर्य्यात्तिलपिष्टञ्च निक्षिपेत्² ॥ कुर्य्यात्तुषाग्निं भूमौ च³ मृदुस्वेदन्तु कारयेत् । अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥ जारणे मारणे चैव रसराजस्य रञ्जने । यन्त्रमेव परं कर्म यन्त्रविद्या महाबला ॥⁴ औषधिरहितस्यायं हठाद्यन्त्रेण वध्यते । तस्माद्यन्त्रबलञ्चैकं न विलम्ब्यं विजानता ॥ 3-24. खर्परं सिकताकारं कृत्वा तस्योपरि न्यसेत् ॥ अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् । पञ्चक्षारैस्तथा मूषैर्लवणैश्च विड़ैस्ततः । हंसपाकः स विज्ञातो⁵ यन्त्रतत्त्वार्थकोविदः ।