Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.19

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.19

Language
English

v1.c25.s2.19

कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका ॥ आद्या श्रेष्ठा कनिष्ठा च मध्यमा मध्यमा मता ॥ दग्धधान्यतुषोपेता मृत्तिका कोष्ठकारिका² । वक्रनालकृते वापि शस्यते सुरसुन्दरि ॥ गौरा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका । अजाखानां मलं दग्धं दग्धा मृत्कृष्णतां गता ॥ वासकस्य च पत्राणि वल्मीकस्य मृदा सह । पेषयेदग्नितोयेन अनेन वज्रतां गतम् ॥ मर्येत्तेन बध्नीयाद्वक्रनालञ्च कोष्ठकम् ॥ गौरा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ॥ चिरमङ्गारकः किट्टं वज्रेणापि न भिद्यते । दग्धाङ्गारस्य षड्भागा भागेका कृष्णमृत्तिका ॥ चिरमङ्गारकः किट्टं वज्रमूषा प्रकीर्त्तिता ॥ तुषदग्धसमा दग्धमृत्तिका चतुरंशिका । घम्मपाषाणसंयुक्ता³ वज्रमूषा प्रकीर्त्तिता ॥