Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.7

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s2.7

Language
English

v1.c25.s2.7

एवं संगृह्य सम्भारं कल्पयोगं समाचरेत् ॥ द्रवद्रव्येण भाण्डस्य पूरितार्द्धोदरस्य च¹ । मुखे तिर्य्यक्कते भाण्डे रसं सूत्रेण लम्बितम् । तं खेदयेत्तत्र गतं दोलायन्त्रमिति स्मृतम् ॥ लोहमूषाद्वयङ्कृत्वा द्वादशाङ्गलमानतः । ईषच्छिद्रां छिद्रमितां² नेकां गन्धकसंयुताम् ॥ मूषायां रसयुक्तायामन्स्यां तां प्रवेशयेत् । तोयं स्यात्सूतकस्याध ऊर्द्धाधो वह्निदीपनम् ॥ रसोत्करसं भद्रे यत्नतो वस्त्रगालितम् । दापयेच्चतुरं यत्नादाप्लावय रसगन्धकौ ॥ स्थालिकायां निधायोर्द्धं स्थालीमन्यां दृढां कुरु । सन्धिं विलेपयेद्यत्नान्मृदा वस्त्रेण चैव हि³ ॥