Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s4: अथ द्वितीयोऽध्यायः । महारसाः ।

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s4

Language
English

अथ द्वितीयोऽध्यायः । महारसाः ।

v1.c25.s4.1

महारसाः ।

v1.c25.s4.2

अभ्रवैक्रान्तमाक्षिकविमलाद्रिजसस्यकम् ।
चपलो रसकश्चेति ज्ञात्वाष्टौ सङ्ग्रहेद्रसान् ॥ 1.
पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् ।
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ 5.
श्वेतं रक्तञ्च पीतञ्च कृष्णमेवं चतुर्विधम् ॥ 10.
सुखनिर्मोचपत्रञ्च तदभ्रं शस्तमोरितम् ॥ 12.
सचन्द्रकञ्च किट्टाभं व्योम न ग्रासयेद्रसम् ।
ग्रसितञ्च नियोज्योऽसौ लोहे चैव रसायने ॥ 13.
निश्चन्द्रकं मृतं व्योम सेव्यं सर्व्वगदेषु च ।
सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥ 14.
प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ।
त्रिफलाक्वाथिते चापि गवां दुग्धे विशेषतः ॥ 17-18.
चूर्णभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मईनादस्खाद्याभ्रमिति कथ्यते ॥ 23.

v1.c25.s4.3

धान्याभ्रं कासमईस्य रसेन परिमर्हितम् । पुटितं दशवारेण म्रियते नात्र संशयः ॥ 24.

v1.c25.s4.4

अथ वैक्रान्तः—

v1.c25.s4.5

अष्टास्त्रमष्टफलकः षट्कोणो मसृणो गुरुः । शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यत ॥ श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः । श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ 55-56.

v1.c25.s4.6

आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी । दीप्ताग्निकृत् पविसमानगुणस्तथैव वैक्रान्तकः खलु वपुर्बललोहकारी ॥ रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् । वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वदोषहा ॥ 57-58.

v1.c25.s4.7

∗ * * वैक्रान्तं वज्राकारं महारसम् । बिम्बस्य दक्षिणे वाऽस्ति ह्युत्तरे वाऽस्ति सर्वतः । विक्रामयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ 60-61.

v1.c25.s4.8

वैक्रान्तकाः सुस्विदिनं विशुद्धाः स्वेदिताः क्षारपट्टनि दत्त्वा । अम्लेषु मूत्रेषु कुलत्थरम्भा- नीरेऽथवा कोद्रववारिपक्ताः ॥

v1.c25.s4.9

कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥ 67-68.

v1.c25.s4.10

भस्मीभूतन्तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥

v1.c25.s4.11

मोचमोरटपलाशक्षारगोमूत्रभावितम् । वज्रकन्दनिशाकल्कफलचूर्णसमन्वितम् । तल्कं टङ्गणं लाक्षाचूर्णं वैक्रान्तसम्भवम् ॥ 70-71.

v1.c25.s4.12

नवसारसमायुक्तं मेषशृङ्गीद्रवान्वितम् । पिण्डितं मूकूषस्थं ध्मापितञ्च हठाग्निना ॥ 72. तत्रैव पतते सत्त्वं वैक्रान्तस्य न संशयः ॥ 73.

v1.c25.s4.13

अथ माक्षिकम्--

v1.c25.s4.14

सुवर्णशैलप्रभवो विशुना काञ्चनो रसः । तापी¹किरातचीनेषु यवनेषु च निर्मितः ॥ 77.

v1.c25.s4.15

(1) तापी, a variant in the Poona ed., which also agrees with B. and K.

v1.c25.s4.16

माक्षिकं द्विविधं हेममाक्षिकं तारमाक्षिकम् । तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ 80. पाषाणवहलः प्रोक्तस्ताराख्योऽल्पगुणात्मकः ॥ 81. मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् । पञ्चकोपुटदग्धं म्रियते माक्षिकं खलु ॥ 84. क्षौद्रगन्वर्त्तलाभ्यां गोमूत्रेण घृतेन च । कदलीकन्दसारेण भावितं माक्षिकं मुहुः । मूषायां मुञ्चति ध्मातं सत्त्वं शुल्वनिभं मृदु ॥ 89-90.

v1.c25.s4.17

अथ विमलः— विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः । तृतीयः कांस्यविमलस्तत्तकान्त्या स लक्ष्यते ॥ 96. वर्त्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ॥ 97. गन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुटैः ॥ 100. सटङ्कलकुचद्रावैर्मेषशृङ्गाश्च भस्मना । पिष्ट्वा मूषोदरे लिप्तः संशोष्या च निरुध्य च ॥

v1.c25.s4.18

(1) Verses 89-90 as also 103-104 occur both in Rasárnava and Rr. by Nág. ; the Poona ed. reads पतते नात्र संशयः in the place of प्रयच्छति न संशयः ।

v1.c25.s4.19

षट्प्रस्थकोकिलैर्भातो विमलः सीससन्निभः¹ । सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्स रसायनः ॥

v1.c25.s4.20

¹ Both the B. and K. Mss. read सीससन्निभः । The Poona ed. gives a variant शीतसन्निभः ।

v1.c25.s4.21

विमलं शिग्रुतोयेन काक्षीकासीसटङ्गणैः । वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥ मोचकक्षारसंसुक्तं ध्मापितं मूकषूषगम् । सत्त्वं चन्द्रार्कसङ्काशं प्रयच्छति न संशयः ॥

v1.c25.s4.22

अथ शिलाधातुः—

v1.c25.s4.23

शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः । कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ॥ 109. ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः । स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् ॥

v1.c25.s4.24

अथ सस्यकम्—

v1.c25.s4.25

मयूरकण्ठवच्छायं भाराढ्यमतिशस्यत ॥ 127.

v1.c25.s4.26

मयूरतुल्यम् —

v1.c25.s4.27

रसायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुल्यम् ॥ 129.

v1.c25.s4.28

लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् । निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ॥ 132.

v1.c25.s4.29

सस्यकस्य तु चूर्णन्तु पादसौभाग्यसंयुतम् । करञ्जतैलमव्यस्थं दिनमेकं निधापयेत् ॥

v1.c25.s4.30

मध्यस्थमन्यमूषायां¹ ध्मापयेत्कोकिलत्रयम् । इन्द्रगोपाकृति चैव सत्त्वं भवति² शोभनम् ॥133-134.

v1.c25.s4.31

निम्बुद्रवालटङ्काभ्यां मूषामध्ये निरुध्य च । तामरूपं परिज्ञातं सत्त्वं मुञ्चति सस्यकम् ॥ 135.

v1.c25.s4.32

शुद्धं सस्यं शिखिकान्त³ पूर्वभेषजसंयुतम् । नानाविधानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥ 136.

v1.c25.s4.33

(1) The Poona ed. reads अन्यमूषासमध्यस्थम् । We have adopted the reading of Rasārnava.

v1.c25.s4.34

(2) पतति, another reading in the Poona ed., which also agrees with B. K. and Rasārnava.

v1.c25.s4.35

(3) The Poona ed. reads शिलाकान्तम् ।

v1.c25.s4.36

अथ चपलः—

v1.c25.s4.37

गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः ।
हेमाभश्चैव ताराभो विशेषाद्रसभन्धनः ॥ 143.
शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ।
वङ्गवद्भवते वङ्गो चपलस्तेन कीर्त्तितः ॥¹ 144.
चपलः स्फटिकच्छायः षडस्रः² स्निग्धको गुरुः ॥ 146.

v1.c25.s4.38

अथ रसकः—

v1.c25.s4.39

रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लकः ।
सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥ 149.
खर्परः परिसन्तप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥
नृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा ।
प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति ॥154-155.

v1.c25.s4.40

Slokas 143 and 144 are from Rasārnava.

v1.c25.s4.41

(2) षडस्रः, another reading in the Poona ed. which we have adopted. Slokas 143-146 are evidently borrowed with slight modifications from Rasārnava, VII. 26-27.

v1.c25.s4.42

हरिद्रानिफलारालसिन्धुभूमैः सटङ्कैः । सारुक्करैश्च पादांशैः साम्रैः सम्मद्य खर्परम् ॥ लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च । मूषां मूषोपरि¹ न्यस्य खर्परं प्रधमेत्ततः ॥ खर्परे प्रहते ज्वाला भवेन्नीला सिता यदि । तदा सन्देशतो मूषां धृत्वा कृत्वा त्वधोमुखीम् । शनैरास्फालयेद्भूमौ यथा नालं न भज्यते ॥ वङ्गभं पतितं सत्त्वं समादाय नियोजयेत् ॥

v1.c25.s4.43

लाक्षागुडासुरोप्याहरिद्रासर्जटङ्कैः । सम्यक्चूर्ण्य तत्पक्कं गोदুগ्धेन घृतेन च । वृन्ताकमूषामध्ये निरुध्य गुटिकाकृति । ध्वाध्वा समाकृष्य ढालयित्वा शिलातले । सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोहरम् ॥

v1.c25.s4.44

(1) मूषां मूषोपरि, a variant in the Poona ed., which also agrees with B. and K.

v1.c25.s4.45

यदा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे ।
सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखं क्षिपेत् ।
मूषोपरि शिखांश्च प्रक्षिप्य प्रधमेद् दृढम् ।
पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ॥

v1.c25.s4.46

तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे ।
मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ॥ 167-168.

Linked texts (2)