Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s4.42

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s4.42

Language
English

v1.c25.s4.42

हरिद्रानिफलारालसिन्धुभूमैः सटङ्कैः । सारुक्करैश्च पादांशैः साम्रैः सम्मद्य खर्परम् ॥ लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च । मूषां मूषोपरि¹ न्यस्य खर्परं प्रधमेत्ततः ॥ खर्परे प्रहते ज्वाला भवेन्नीला सिता यदि । तदा सन्देशतो मूषां धृत्वा कृत्वा त्वधोमुखीम् । शनैरास्फालयेद्भूमौ यथा नालं न भज्यते ॥ वङ्गभं पतितं सत्त्वं समादाय नियोजयेत् ॥