Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s4.2

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s4.2

Language
English

v1.c25.s4.2

अभ्रवैक्रान्तमाक्षिकविमलाद्रिजसस्यकम् ।
चपलो रसकश्चेति ज्ञात्वाष्टौ सङ्ग्रहेद्रसान् ॥ 1.
पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् ।
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ 5.
श्वेतं रक्तञ्च पीतञ्च कृष्णमेवं चतुर्विधम् ॥ 10.
सुखनिर्मोचपत्रञ्च तदभ्रं शस्तमोरितम् ॥ 12.
सचन्द्रकञ्च किट्टाभं व्योम न ग्रासयेद्रसम् ।
ग्रसितञ्च नियोज्योऽसौ लोहे चैव रसायने ॥ 13.
निश्चन्द्रकं मृतं व्योम सेव्यं सर्व्वगदेषु च ।
सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥ 14.
प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ।
त्रिफलाक्वाथिते चापि गवां दुग्धे विशेषतः ॥ 17-18.
चूर्णभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मईनादस्खाद्याभ्रमिति कथ्यते ॥ 23.