A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.12
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.12
- Language
- English
v1.c25.s6.12
लकुचद्रावसंपिष्टैः शिलागन्धकतालकैः । वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ 63. रामठं पञ्चलवणं क्षाराणां त्रितयं तथा । मांसद्राव्याम्लवेतस¹ चूलिका लवणं तथा ॥ स्थूलं कुम्भीफलं पक्कं तथा ज्वालामुखी शुभा । द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥ दुग्धं स्नुहास्तथाऽर्कस्य सर्वं संमद्य यत्नतः । गोलं विधाय तन्मध्ये प्रक्षिपेत तदनन्तरम् ॥ गुणवन्नवरत्नानि जातिमन्ति शुभानि च । भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥