A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6: अथ चतुर्थोऽध्यायः । अथ रत्नानि ।
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6
- Language
- English
अथ चतुर्थोऽध्यायः । अथ रत्नानि ।
v1.c25.s6.1
अथ रत्नानि ।
v1.c25.s6.2
अथ मणयः—
v1.c25.s6.3
मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः । वैक्रान्तः सूर्य्यकान्तश्च हीरकं मौक्तिकं मणिः ॥ चन्द्रकान्तस्तथा चैव राजावर्त्तश्च सप्तमः । गरुड़ोद्गारकश्चैव ज्ञातव्या मणयस्त्वमी ॥
v1.c25.s6.4
(1) नीलिममिश्रितप्रभः, another reading in the Poona ed., which agrees with B. and K., but it is grammatically inaccurate.
v1.c25.s6.5
पुष्परागं महानीलं पद्मरागं प्रबालकम् । वैदूर्य्यं च तथा नीलमेते च मणयो मताः ॥ 13.
v1.c25.s6.6
अथ वज्रम्--
v1.c25.s6.7
वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । पूर्वं पूर्वमिह श्रेष्ठं रसवीर्य्यविपाकतः ॥ 26. अष्टास्त्रं चाष्टफलकं षट्कोणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ॥ 27. तदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् । वर्तुलं कुण्ठकोणाग्रं किञ्चिद्गुरु नपुंसकम् ॥ 28. श्वेतादिवर्णभेदेन तदेकं चतुर्विधम् । ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ 30. आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । सूतेन्द्रबन्धवधसद्गुणकृत् प्रदीपं मृत्युञ्जयं तदमृतोपममेव वज्रम् ॥ 32. कुलत्थक्वाथे स्विन्नं कोद्रवकथितेन वा । एकायामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥
v1.c25.s6.8
वज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् । सुगन्धिमूषिकामांसैर्वर्त्ततैः परिवेष्ट्य च ॥ पुटेत् पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् । ध्वात्वा ध्वात्वा शतं वारान् कुलत्थक्वाथके क्षिपेत् ॥ 34-37. अन्यैरुक्तः शतं वारान् कर्त्तव्योऽयं विधिक्क्रमः ॥ कुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया । शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च । अष्टवारं पुटेत् सम्यग्विशुष्कैश्च वनोपलैः । शतवारं ततो ध्वात्वा निक्षिप्तं शुद्धपारदे । निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥ 38 39. सत्यवाक् सोमसेनानीरितद्वज्रस्य मारणम् । दृष्टप्रत्ययसंयुक्तमुक्तवान् रसकौतुकी ॥ 40. विलिप्तं मत्कुणस्यास्रै सप्तवारं विशोषितम् ॥ कासमर्दरसापूर्णे लोहपात्रे निवेशितम् । सप्तवारं परिध्वातं वज्रभस्म भवेत् खलु ॥ ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्त्तितः । 41-43.
v1.c25.s6.9
(1) पारमद्य च, another reading in the Poona ed., which does not agree with B. and K.
v1.c25.s6.10
मदनस्य फलोद्धृतसेन चौषिनागकैः । कृतकल्केन संलिप्य पुटेद्विंशतिवारकम् ॥ वज्रचूर्णं भवेद्व्ययं योजयेच्च रसादिषु ॥ 44 45.
v1.c25.s6.11
अथ रत्नभस्मक्रमः—
v1.c25.s6.12
लकुचद्रावसंपिष्टैः शिलागन्धकतालकैः । वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ 63. रामठं पञ्चलवणं क्षाराणां त्रितयं तथा । मांसद्राव्याम्लवेतस¹ चूलिका लवणं तथा ॥ स्थूलं कुम्भीफलं पक्कं तथा ज्वालामुखी शुभा । द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥ दुग्धं स्नुहास्तथाऽर्कस्य सर्वं संमद्य यत्नतः । गोलं विधाय तन्मध्ये प्रक्षिपेत तदनन्तरम् ॥ गुणवन्नवरत्नानि जातिमन्ति शुभानि च । भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥
v1.c25.s6.13
(1) मांसद्राव्याम्लवेतस, a variant in the Poona ed., which we have adopted and which also agrees with B. and K.
v1.c25.s6.14
पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च । सर्वाम्लयुक्तसन्धानपरिपूर्णघटोदरे ॥ अहोरात्रत्रयं यावत् स्वेदयेत्तीव्रवह्निना । तस्मादाहृत्य सङ्गाल्य रत्नजां द्रुतिमाहरेत् ॥ 64-69. मुक्ताचूर्णन्तु सप्ताहं वेतसाम्लेन मर्दितम् । जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् ॥ सप्ताहादुद्धृतञ्चैव पुटे दत्त्वा द्रुतिं हरेत् । 70-71. वज्रवल्ल्यन्तरस्थञ्च कृत्वा वज्रं निरोधयेत् । अम्लभाण्डगतं स्वेद्यं सप्ताहाद्रवतां व्रजेत् ॥ 72.
v1.c25.s6.15
अथ वैक्रान्तम्—
v1.c25.s6.16
श्वेतवर्णन्तु वैक्रान्तमम्लवेतसभावितम् । सप्ताहान्नात्र सन्देहः खरघर्मं द्रवत्यलम् ॥ 73. केतकीस्वरसो ग्राह्यः सैन्यवं स्वर्णपुष्पिका । इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् ॥ सप्ताहं स्वेदयेदस्मिन् वैक्रान्तं द्रवतां व्रजेत् । 74-75.
v1.c25.s6.17
(1) द्रुतिं हरेत्, a variant in the Poona ed., which we have adopted.