Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.14

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s6.14

Language
English

v1.c25.s6.14

पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च । सर्वाम्लयुक्तसन्धानपरिपूर्णघटोदरे ॥ अहोरात्रत्रयं यावत् स्वेदयेत्तीव्रवह्निना । तस्मादाहृत्य सङ्गाल्य रत्नजां द्रुतिमाहरेत् ॥ 64-69. मुक्ताचूर्णन्तु सप्ताहं वेतसाम्लेन मर्दितम् । जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् ॥ सप्ताहादुद्धृतञ्चैव पुटे दत्त्वा द्रुतिं हरेत् । 70-71. वज्रवल्ल्यन्तरस्थञ्च कृत्वा वज्रं निरोधयेत् । अम्लभाण्डगतं स्वेद्यं सप्ताहाद्रवतां व्रजेत् ॥ 72.