A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.293
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.293
- Language
- English
v2.c34.293
यथा त्रिसंमृताव सृष्टानां भूतानां स्फुटतरव्यवहारनाम-रूपस्य करणोपायतया विवत्करणं श्रुतं तद्वत् भूतपञ्चकसर्ग-श्रुतौ अपि तथा। तदानीं पञ्चीकरणान्तरं आकाशे शब्दोऽभिव्यज्यते स्फुटतयेति सर्व्वत्र योजनीयं (विद्वन्मनोरञ्जिनी)—अस्ति हि शरीरे सर्व्वेषांअपि भूतानां कार्य्यसंप्रतिपत्ति: अवकाशव्यूहन-पवनक्लेदनकाठिन्यानां सर्व्वजनानुभवसिद्धत्वात्। अतस्तत्कारणतया पञ्चापि भूतानि एकस्मिन् देहे सन्तीति स्थिते तन्तुपटयोरिव अवयवावयवितमेव पञ्चभूतदेहयोर्युक्तं। न च स्पर्शशून्यत्वात् एक-द्रव्यत्वात् च आकाशस्य आरम्भकत्वानुपपत्तिरिति वाच्यं। आरम्भवादस्य अनङ्गीकारात्। एकस्यापि दुग्धावयविनो दध्या-रम्भकत्वदर्शनात्। वस्तुतस्तु पञ्चानां भूतानां पञ्चात्मकत्वस्य दर्शितत्वात् आरम्भवादस्य निराकृतत्वात् च। तस्मात् सिद्धं शरीरं पाञ्चभौतिकमिति। Vidvanmanorañjinī.