Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.294

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.294

Language
English

v2.c34.294

न तावत् समानजातीयमेव आरभते न भिन्नजातीयमिति नियमो नास्ति । समवायिकारणे एव समानजातीयत्वाभ्युपगमः न कारणान्तरविषय इति तदपि अनैकान्तिकम् । नापि अनेकमेव आरभते न कमिति नियमोऽस्ति । अणुमनसोराद्यकम्मा-रम्भाभ्युपगमात् । एकैको हि परमाणुः आद्यं स्वकम्माऽऽरभते न द्व्यन्तरैः संहत्य इत्यभ्युपगम्यते । द्व्यारम्भे एव अनेकारम्भकत्वनियम इति चेत् न परिणामाभ्युपगमात् । तदेव तु द्रव्यं विशेषवदवस्थान्तरं चापद्यमानं कार्यं नामाभ्युपगस्यते । तच्च क्वचित् अनेकं परिणमते मृद्वीजाङ्कुरादिभावेन, क्वचिदेकं परिणमते क्षीरादि-दध्यादिभावेन । नेश्वरशासनं अस्ति अनेकं एव कारणं कार्यं जनयति इति । (S'ankara, S'áríraka-bháshya, Sútra 7, Pada 3, Adhyáya II).