A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.210
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.210
- Language
- English
v2.c35.210
पुनरन्यं प्रवक्ष्यामि माण्डव्येन यथा कृतम् । रसोपरसयोगेन सिद्धं सूतं सुसाधितम् ॥ विद्रुच्छुक्लायनं नागं यथार्थकाञ्चनं कृतम् ।
* * * * ॥ शास्त्रं वशिष्ठमाण्डव्यं गुरुपार्श्वे यथा श्रुतम् । तदहं सम्प्रवक्ष्यामि साधनञ्च यथाविधि ॥ सहायशोभनाः प्राज्ञा निरालम्भा दृढव्रताः । कुलीनाः पापहीनाश्च साधयन्ति जितेन्द्रियाः ॥ कोष्ठिका वक्रनालञ्च गोमयं सारमिन्धनम् । धमनं लोहपत्राणि औषधं काञ्जिकं विडम् ॥ कन्दराणि विचित्राणि * * * सर्व्वमेलनं कृत्वा ततः कर्म्म समारभेत् ॥ रत्नघोष उवाच— साधयित्वा प्रयत्नेन कोटिवेधो महारसः । शरीरेण विनैतेन सर्व्वं भवति निष्फलम् ॥ नागार्जुन उवाच— कथयामि न सन्देहः साकाण्डेन यथा कृतम् ॥ आर्द्रत्वञ्च घनत्वञ्च चापलं गुरुतेजसः ।