Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.58

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.58

Language
English

v2.c35.58

सत्यं यत् किञ्चित् क्वचित् दृष्टं तस्य यत्र प्रतिबन्धः, तदिदः तस्य तत्-
गमकं तव इति अनुज्ञानौमः । स एव तु प्रतिबन्धो न तावत् तदुत्पत्त्या
सम्भवति । का पुनरियं तदुत्पत्तिः । धूमस्य किं वह्न्यनन्तरं भावः । स
तादृशः अस्ति रासभस्यापि । ततप्रतिबद्धोऽपि धूमः स्यात् । अथ तदनन्त-
रमेव भावः, न च रासभानन्तरं भवनपि तदनन्तरमेव भवति, तस्मिन् सति
अपि असति अग्नौ तदभावात् । असति अपि तस्मिन् सत्याग्नौ तद्भवति
वह्नौ तद्भावात् । अथ यद्यपि धूमस्य वह्निभावानुविधानं तवोपलब्धं,
तथापि देशान्तरादिषु तद्भावोऽस्य कुतः । तथा हि भूयो भूयो
रासभे दृष्टे धूमीदृष्टः, तदभावे च अदृष्टः, न स तत्कार्यः । तज्जातीय-
स्यैव धूमस्य रासभं विना सति वह्नौ भावात्, एवं सत्यपि अग्नौ पिशाचेन
जनितो धूमः, क्वचिद्देशादौ तज्जातीय एव रासभवद्वह्निभावेऽपि पिशाचा-
देव भविष्यति, इति अवश्यं शङ्कया भाव्यं नियामकं अपश्यताम् । न च सति