Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.78

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.78

Language
English

v2.c35.78

यो वा स वा अस्तु सम्बन्धः यस्य असौ स्वाभाविकौ नियतः स एव गमकः, गम्यश्च इतरः सम्बन्ध इति युज्यते। तथा हि धूमादीनां वह्नादिसम्बन्धः स्वाभाविकः। न तु वह्नादीनां धूमादिभिः। उपलभ्यन्ते ते हि विनापि धूमादिभिः। यदातु आर्द्रैन्धनादिसम्बन्धम् अनुभवन्ति तदा धूमादिभिः सह संवध्यन्ते। तस्मात् वह्नादीनाम् आर्द्रैन्धनाद्युपाधिकतः सम्बन्धो न स्वाभाविकः। ततो न नियतः। स्वाभाविकस्तु धूमादीनां वह्नादिसम्बन्ध उपाधेः अनुपलभ्यमानात् क्वचित् व्यभिचारस्य अदर्शनात् अनुपलभ्यमानापि कल्पनानुपपत्तेः। अतो नियतः सम्बन्धः अनुमानाङ्गम्।