Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s2.24

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s2.24

Language
English

v2.c35.s2.24

तेन कल्केन पत्राणि लेपयेदभ्रकस्य च । कांस्यपात्रेण * * * स्तारि साधकोत्तमः ॥ २४ ॥ सूर्यधाम्नि ततो धाप्यः सप्ताहं साधकोत्तमः । द्रवते नात्र संदेहः प्रियं दृष्ट्वा यथा स्त्रियः ॥ २५ ॥ रसस्य भागमेकं तु द्रुतभागसमं कुरु । एकोकृत्य तु तद्वाम्यं म्रियते नात्र संशयः ॥ २६ ॥ लक्षांशवेधोऽसौ हि जायते नात्र संशयः । अथान्त्यं संप्रवक्ष्यामि यथा संजायते द्रुतिः ॥ २७ ॥ ग्राहयेदभ्रकं प्राज्ञः पीतं वा कृष्णमेव वा । पुरासंस्कारयुक्तं तु कर्त्तव्यं साधकेन तु ॥ २८ ॥ यवासा चित्रकं धारः कंचुकीवज्रदंडयोः । वज्रकंदार्कक्षीरं च भल्लातं टंकणं तथा ॥ २९ ॥ क्षारत्रयसमायुक्तं पटुपंचसमन्वितं । एकोकृत्य तु कल्केन अभ्रपत्राणि लेपयेत् ॥ ३० ॥ मूषागर्भोदरे क्षिप्त्वा धामयेत् खदिरानलैः । द्रवते नात्र संदेहः * * * * * इति काकचंडेश्वरिमते षष्ठः पटलः ।