A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.17
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.17
- Language
- English
v2.c35.s3.17
पलाईशुद्धसस्येन भृष्टगुञ्जारसेन च । विमद्य काञ्जिके कुर्यात् मरिचप्रमितां गुटीम्¹ ॥ निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च । शुषिरैर्नवभिः² सम्यग्भस्त्राभ्यां च धमेत् खलु ॥ ततो मूषागतं सत्त्वं समादाय समन्ततः । धमेत् प्रकटमूषायां वङ्कनालेन शुद्धये ॥ दशशागं हि तत्सत्त्वं भस्मना लवणोन च । सकाञ्जिकेन संवेष्य पुटयोगेन शोधयेत् ॥ दिनिष्कप्रमिते तस्मिन् पूर्वप्रोक्तेन भस्मना । अशोतिगुणितं नागं क्षात्वा निर्वाइयेत् खलु ॥ इयता³ पूर्वसूतोऽसौ जीयते न कथञ्चन । चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ॥ अनेनापि रसः शीघ्रं बध्यते पूर्ववत् खलु । कारवल्लीटचाचूर्णैर्दशधा पुटितो हि सः । भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥