Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3: Extracts from Rasendrachudamani

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3

Language
English

Extracts from Rasendrachudamani

v2.c35.s3.2

सोमदेवविरचितात् रसेन्द्रचूडामणेः उद्धृताः श्लोकाः ।

v2.c35.s3.3

रूप्येण सह संयुक्तं ध्मातं रूप्येण चेल्लगेत्¹ । तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ॥ एवं रूप्यं सनागं चेत् ध्मातं ताम्रे लगेन्नहि ॥

v2.c35.s3.4

¹ The text reads लघु. But रसरत्नसमुच्चय reads लगेत्, which seems to be correct.

v2.c35.s3.5

निष्कमात्रे तु नागेऽस्मिन् लोहखायां हृते सति । स्वतो लब्धगुणां हैमीं शलाकां ग्रसति ध्रुवम् ॥ कुसुम्भतैलतप्तं तत् स्वर्णमुद्धरति² ध्रुवम् । गुह्यनागोऽयमुद्दिष्टो वक्ति³ स्वच्छन्दभैरवः ॥

v2.c35.s3.6

² The text reads स्वर्णं मुद्रिरिं, which is incorrect.

v2.c35.s3.7

³ The text reads मुदिष्टवक्ति, which has no sense.

v2.c35.s3.8

तीक्ष्णं नीलाञ्जनोपेतं खातं हि बहुशो दृढम् । मृदुक्ष्णां द्रुतद्रावं¹ वरनागं तदुच्यते ॥ मृतस्य पुनरूतिः संप्रोक्तोत्थापनाख्यया² । द्रुतद्रव्यस्य निक्षेपो द्रवे तद्गालनं मतम् ॥ विंशत्पलमितं नागं भानुदुग्धेन मर्द्दितम् । विमर्द्य पुटयेत्तावत् यावत् कर्षावशेषितम् ॥ न तत् पुटसहस्रेण क्षयमायाति सर्व्वथा³ । चपलोऽयं समुद्दिष्टो वार्त्तिर्कैर्नागसम्भवः⁴ ॥ इत्यं हि चपलः⁵ कार्य्यो वङ्गस्यापि न संशयः । तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ॥

v2.c35.s3.9

¹ The text has द्रुतद्रावी, which is incorrect. We have adopted the text of रसरत्नसमुच्चय.

v2.c35.s3.10

² The text reads साधोक्तस्थापनाख्याया, which seems to be erroneous.

v2.c35.s3.11

³ The text has क्षयमायान्ति सर्व्वदा, which is grammatically incorrect.

v2.c35.s3.12

⁴ The text reads मार्गसंभवः, which is incorrect.

v2.c35.s3.13

⁵ The text reads इत्यं चौरपलः, which is senseless.

v2.c35.s3.14

(1) The text has द्रुतद्रावी, which is incorrect. We have adopted the text of रसरत्नसमुच्चय.
(2) The text reads साधोक्तस्थापनाख्याया, which seems to be erroneous.
(3) The text has क्षयमायान्ति सर्व्वदा, which is grammatically incorrect.
(4) The text reads मार्गसंभवः, which is incorrect.
(5) The text reads इत्यं चौरपलः, which is senseless.

v2.c35.s3.15

स रसो धातुवादेषु शस्यते न रसायने¹। अयं हि खर्पणाख्येन² लोकनाथेन कीर्त्तितः॥ भ्रामकाख्यरजः सूक्ष्मं पञ्चमांशरसान्वितम्। कुमारीमूलतोयेन मर्दयेदेकवासरम्॥ चाङ्गेरीस्वरसेमापि दिनमेकमनारतम्³। एवं भूनागसातेन मर्दयेद्विसदयम्॥ अथैकपलमामेम तावता अणुपापि च। दशभिष्करसेन्द्रेण श्लक्ष्णपिष्टीं समाचरेत्॥ योजयित्वाथ कल्केन यथापूर्वं विमर्दयेत्। ततः साररसेन्द्रेण सत्त्वेन रसकस्य च। पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्केन योजयेत्॥ अथ प्रक्षाल्य कोष्ठेन⁴ काञ्जिकेन प्रशोषयेत्।

v2.c35.s3.16

(1) The text has रसायनम्.
(2) खर्पणाख्येन is the reading in रसरत्नसमुच्चय.
(3) The text reads दिनमेकमनारसम्, which has no clear sense.
(4) The text reads कोष्ठेन, which is unintelligible.

v2.c35.s3.17

पलाईशुद्धसस्येन भृष्टगुञ्जारसेन च । विमद्य काञ्जिके कुर्यात् मरिचप्रमितां गुटीम्¹ ॥ निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च । शुषिरैर्नवभिः² सम्यग्भस्त्राभ्यां च धमेत् खलु ॥ ततो मूषागतं सत्त्वं समादाय समन्ततः । धमेत् प्रकटमूषायां वङ्कनालेन शुद्धये ॥ दशशागं हि तत्सत्त्वं भस्मना लवणोन च । सकाञ्जिकेन संवेष्य पुटयोगेन शोधयेत् ॥ दिनिष्कप्रमिते तस्मिन् पूर्वप्रोक्तेन भस्मना । अशोतिगुणितं नागं क्षात्वा निर्वाइयेत् खलु ॥ इयता³ पूर्वसूतोऽसौ जीयते न कथञ्चन । चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ॥ अनेनापि रसः शीघ्रं बध्यते पूर्ववत् खलु । कारवल्लीटचाचूर्णैर्दशधा पुटितो हि सः । भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥

v2.c35.s3.18

¹ The text reads मरिचप्रमिता गुटी, which is incorrect.

v2.c35.s3.19

² The text reads शिशिरैर्नवभिः, which has no sense.

v2.c35.s3.20

³ The text reads इयमा, which is incorrect.

v2.c35.s3.21

मुखं प्रकटमूषायां भवेच्च विगुणोत्तरम्¹ । जीर्णग्रासो रसो ह्येष देहलोहकरो भवेत् ॥ सोऽयं श्रीसोमदेवेन कथितोऽतीवनिश्चितम् ॥ भृभुजङ्गशक्ततोयैः² प्रक्षाल्यापहृतं³ रजः । क्षारवर्णं हि तत् प्रोक्तं धौताख्यं⁴ रसवादिभिः ॥

v2.c35.s3.22

¹ The text reads विगुणत्तर, which is incorrect.

v2.c35.s3.23

² The text reads तायै, which is not accurate.

v2.c35.s3.24

³ The text has अपहतं, which is not accurate.

v2.c35.s3.25

⁴ The text reads धौताख्यं, which is not correct.

v2.c35.s3.26

स्वरूपस्य विनाशेन पिष्टतापादनं हि यत् । विपुङ्गिवर्जितः⁵ सूतो नष्टपिष्टः स उच्यते ॥ अथ यन्त्राणि वक्ष्यन्ते रसन्त्वाख्यनेकशः⁶ । समालोक्य समासेन सोमदेवेन सांप्रतम् ॥

v2.c35.s3.27

⁵ But रसरत्नसमुच्चय reads विवह्निर्निजितः.

v2.c35.s3.28

⁶ But रसरत्नसमुच्चय reads अशेषतः.

v2.c35.s3.29

ऊर्द्धपातनयन्त्रं हि नन्दिना परिकीर्त्तितम् ॥

v2.c35.s3.30

कोष्ठ(ष्टि)कायन्त्रमेतद्धि नन्दिना परिकीर्त्तितम् ॥

v2.c35.s3.31

विन्ध्याद्रौ हिमपर्व्वते च मलये गोमन्तके श्रीगिरौ सह्याद्रावथ पारियात्रकगिरौ किंकिंधिनामालये । माहेन्द्रेऽप्यथ चाल्यवत्क्षितिधरे तद्रूपनामाधिकं गोपाभोरकसिद्धवैद्यमुखतो वैद्यः समाविद्यताम् ॥

v2.c35.s3.32

इति श्रीकरवालभैरवपुरवरपतिश्रीसोमदेवविरचिते रसेन्द्रचूडामणौ रससूत्रस्थाने रसमहिम- निरूपणं नाम प्रथमोऽध्यायः समाप्तः ।

v2.c35.s3.33

RASAPRAKASASUDHAKARA.

v2.c35.s3.34

यशोधरविरचितात् रसप्रकाशसुधाकरात् उद्धृताः श्लोकाः ।

v2.c35.s3.35

विमलसूतवरो हि पलाष्टकं तदनु धातुघटीपटकांक्षिकाः । पृथगिमाश्च चतुःपलभागिकाः स्फटिकशुद्धपलाष्टसमन्विताः । सह जलेन विमर्द्य च यामकं लवणकाम्लजलेन विमिश्रितम् । उदितधातुगणस्य च मूषिकां कुरु रसं विनिवेशय तत्र वै । डमरुकाभिधयन्त्रवरेण तं द्विदशयाममजाचयवह्निना । पवनपित्तकफक्षयकारकं सकलरोगहरं परमं सदा ।

v2.c35.s3.36

गजपतेर्बलदद्बलदो नृणां द्विजपतीक्षणवन्दनप्रदः । युवतिकामविलासविधायको भवति सूतवरः सुखदः सदा । सघनसाररसः किल कान्तिद- स्त्वखिलकुष्ठहरः कथितो मया ॥ इति कर्पूररसः ॥

v2.c35.s3.37

उदयभास्करनामरसो ह्ययं भवति रोगविधान्तकरः स्वयम् । मगधिकामधुना सह गुञ्जिका- त्रयमितश्च सदा परिसेवितः । ललितकामविलासविधायकः स्थविरकोऽपि रती तरुणायते ॥ गदहरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा । सकलसूतशास्त्रविमन्यजो द्विजवरेण मया प्रकटीकृतः ॥ इति उदयभास्कररसः ॥

v2.c35.s3.38

अथेदानीं प्रवक्ष्यामि धातुशोधनमारणम् । अनुभूतं मया किञ्चित् किञ्चिच्छास्त्रानुसारतः ॥ सुवर्णं रजतं चेति लोहं शुद्धमुदीरयेत् । ताम्रं चैवाश्मसारञ्च नागवङ्गौ तथैव च ॥ तोललोहं निगदितं द्वितयं रसवेदिभिः । समिश्रलोहत्रितयं सौराष्ट्ररीतवर्त्तकाः । एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति हि ॥

v2.c35.s3.39

अथ रसकगुणाः ।

v2.c35.s3.40

द्विविधो रसकः प्रोक्तः कारवेल्लक-दुर्दुरः¹ । सत्त्वपाते परः प्रोक्तः प्रथममौषधादिषु ॥ स तु² मेहहरश्चैव पित्तश्लेष्मविनाशनः । रञ्जनः पारदस्याथ नेत्ररोगक्षयापहः³ ॥

v2.c35.s3.41

¹ The text reads कानी वल्लभदुर्दुरः, which appears to be incorrect.

v2.c35.s3.42

² The text reads सत्त्व, which seems to be incorrect.

v2.c35.s3.43

³ The second hemistich is wanting in the text. We have adopted the reading of रसरत्नसमुच्चय.

v2.c35.s3.44

पारदो रसकश्चैव देहलोहकरावुभौ । नागार्जुनैन कथितौ सिद्धौ श्रेष्ठौ रसावुभौ ॥ कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ । तेन स्वर्णमयी सिद्धिरर्जिता¹ च न संशयः ॥ रसको द्रावितः सम्यक् निक्षिप्तो रसपूरके । निर्मलत्वमवाप्नोति सप्तवारं निमज्जितः² ॥ काञ्जिके वाथ तक्रे वा नृमूत्रे³ मेषमूत्रके । द्रावितं चालितं⁴ सम्यक् खर्परं परिशुध्यति ॥ खर्परं रेचितं शुद्धं स्थापितं नरमूत्रके । रञ्जयेद्भासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥

v2.c35.s3.45

(1) The text reads सिद्धी राजिता, which is not accurate.

v2.c35.s3.46

(2) The text reads निमज्जित, which is incorrect.

v2.c35.s3.47

(3) The text has only मूत्रे, which mars the metre.

v2.c35.s3.48

(4) द्राविते चालिते is the reading of the text, which is evidently an error.

v2.c35.s3.49

वचाहरिद्रात्रिफला-ग्टहधूमैः समैर्भवैः । भल्लातकेष्टकणैश्च क्षारैराम्लैश्च मर्हितम्¹ ॥ पाठांशसंयुतैर्मूषां हन्ताकफलसन्निभाम् । निरुध्य शोषयित्वा च मूषामुखोपरि न्यसेत् ॥ प्रज्ञाते खर्परे ज्वाला सिता नीला भवेद्यदि । लोहसंदंशके मूषां धृत्वा कृत्वा ह्यधोमुखीम् । भूयामाढाळयेत् सत्त्वं यथा नालं न भज्यते । तदा सीसोपमं² सत्त्वं पतत्येव न संशयः ॥ अनेनैव प्रकारेण वारत्रयकृते सति । विनि:सरेत् सर्व्वसत्त्वं सहिंगु(?) गुरुणोदितम् ॥

v2.c35.s3.50

¹ The text reads वर्जितं, which seems to incorrect.

v2.c35.s3.51

² रसरत्नसमुच्चय says वङ्गाभं. See Chap. II. Verse 161.

v2.c35.s3.52

अथ सौराष्ट्रीगुणाः ।

v2.c35.s3.53

सौराष्ट्रदेशे सञ्जाता खनिजा³ तुवरी मता । या लेपिता श्वेतवस्त्रे रङ्गबन्धकरी हि सा ॥

v2.c35.s3.54

³ The text reads खनिता, which is incorrect.

v2.c35.s3.55

फुल्लिका खटिका¹ तद्वत् द्विप्रकारा प्रशस्यते । किञ्चित् पोता च सुस्निग्धा गरदोषविनाशिनी ॥ श्वेतवर्णा परा साम्ला फुल्लिका लोहमारणी ॥ कषाया मधुरा काङ्क्षी कटुका विषनाशिनी । व्रणघ्नी कफहा चैव नेत्रव्यापत्तिदोषहा ॥ कण्ठरोगहरा सा तु पारदे बीजजारणी । धान्याम्ले तुवरी क्षिप्ता शुध्यति त्रिदिनेन वै ॥ क्षारैराम्लैश्च मृदिता ज्ञाता सत्त्वं विमुञ्चति । तत् सत्त्वं धातुवादार्थे चौषधे नोपपद्यते ॥

v2.c35.s3.56

अथ पुटानि लिख्यन्ते ।

v2.c35.s3.57

भूम्यां वै खन्यते गर्तं द्विहस्तं चतुरस्रकम् । इन्धनेन सहस्रेण पूरयेत्तदनन्तरम् ॥ औषधं धारयेन्मध्ये तदाच्छाद्य वनोपलैः । सहस्रार्धेन वै सम्यग्वह्निं प्रज्वालयेत्ततः ॥ महापुटमिदं प्रोक्तं ग्रन्थकारेण निर्मितम् ॥

v2.c35.s3.58

इति महापुटम् ॥

v2.c35.s3.59

(1) रसरत्नसमुच्चय says फटकौ फुल्लिका.

v2.c35.s3.60

एकहस्तप्रमाणं हि चतुरस्रं च गर्तकम् । वनोपलसहस्रेण गर्तमध्यं च पूरितम् ॥ मूषिकां चौषधनाथ पूरितां तां तु मुद्रयेत् । गर्तमध्ये निधायाथ गिरण्डानि¹ च निक्षिपेत् ॥ ऊर्ध्वाग्निं ज्वालयेत् सम्यक् सोऽयं गजपुटो भवेत् ॥ इति गजपुटः ॥

v2.c35.s3.61

उपलं पिष्टकं क्षाणमुत्पलञ्च गिरण्डकम् । क्ष्णोपलसारी च तचरा² क्ष्णोऽभिधाः ॥ अरत्निमात्रे कुंडे च वाराहपुटमुच्यते³ ॥ इति वाराहपुटः ॥

v2.c35.s3.62

वितस्तिद्वयमानेन गर्तं चेच्चतुरस्रकम्⁴ । कुकुटाख्यं पुटं विद्यादौषधानाञ्च साधनम् ॥ इति कुकुटपुटः ॥

v2.c35.s3.63

(1) रसरत्नसमुच्चय reads गिरिखण्डानि.
(2) रसरत्नसमुच्चय reads वराटी.
(3) The text reads अभिमात्रेण कुंडे च वाराहपुटमव्यतः, which seems to be incorrect.
(4) The text reads गर्तं कुय्याच्चतुरस्रकं, which mars the metre.

v2.c35.s3.64

क्रगणेरष्टभिः सम्यक् कपोतपुटमुच्यते ॥ इति कपोतपुटः ॥ तुषैर्वा गोवरैर्वापि रसभास्मप्रसाधनम् । माणिकाद्यमानेन गोवरं पुटमुच्यते ॥ इति गोवरपुटः ॥ मृद्भाण्डे तु प्रपूर्यैव मध्ये द्रव्यं तु विन्यसेत् । अधस्ताज्ज्वालयेदग्निं मृद्भाण्डपुटमुच्यते ॥ इति (मृद्)भाण्डपुटः ॥ गर्तं तु बालुकापूर्णं मध्ये द्रव्यं तु विन्यसेत् । उपरिष्टादधस्ताच्च वह्निं कुर्यात् प्रयत्नतः । तद्बालुकापुटं सम्यगुच्यते शास्त्रकोविदः ॥ इति बालुकापुटः ॥ मूषिकां भूमिमध्ये तु स्थापितां द्यङ्गुलादधः । उपरिष्टात् पुटं दद्यात् तत् पुटं भूधराभिधम् ॥ इति भूधरापुटः ॥

v2.c35.s3.65

¹ The text reads दत्वा, which is incorrect.

v2.c35.s3.66

गोवरैर्वा तुषैर्वापि मात्राकर्षमितैः पुटम् । यत्र तल्लावकाख्यं स्यान्मृदुद्रव्यस्य साधने ॥ इति लावकापुटः ॥

v2.c35.s3.67

इति श्रीपद्मनाभसूनुयशोधरविरचिते रसप्रकाशसुधाकरे दशमोऽध्यायः ।

v2.c35.s3.68

अथातः संप्रवक्ष्यामि धातूनां कौतुकं परम् । स्वानुभूतं मया किञ्चित् श्रुतं यच्छास्त्रतः खलु ॥ तदहं कथयिष्यामि यत् कृत्वा ना सुखी भवेत् । रसकं दरदं ताभ्यं गगनं कुनटीसमम् । रक्तस्नुहोपयोभिश्च मर्दयेद्दिनसप्तकम् ॥ जलयन्त्रेण वै पाच्यं चतुर्विंशतियामकम् । तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥ सहस्रवेधो तु तत्कल्पो जायते नात्र संशयः ॥ एकभागस्तथा सूतो वज्रवल्ल्यथ मर्दितः । खल्ले विनिष्पाच्य रसे पञ्चभागसमन्विते । वेत्रयष्ट्या च रागिण्या पीतल्कं प्रजायते ॥

v2.c35.s3.69

षोडशांशेन दातव्यं द्रुते ताम्रे सुशोभने । जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥ इति हेमक्रिया ॥

v2.c35.s3.70

स्वर्णमाक्षिकं स्वेद्य काञ्जिके दिवसत्रयम् । चम्परंग्या (गा) रसेनैव मर्दयेद्दिनसप्तकम् । जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥ दरदं रसदेशीयं¹ गोमूत्रेणैव स्वेदयेत् । दोलायन्त्रेऽह्नि² चत्वारि पश्चाच्छुद्धतमो भवेत् ॥ मनःशिला पद्मनिभा रक्ता चैव सुशोभना । स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया । याममष्टमिता शुद्धा सर्वकार्येषु योजयेत् ॥ नवसारस्तथा सूतः शोधितोऽग्निमति स्थले । समभागानि सर्वाणि मर्दयेन्निम्बुकारसैः ॥ मातुलुङ्गरसेनैव कुमारीसुरसेन वा । सूर्यातपे विमर्द्यसौ पाचितो जलयन्त्रके । दिनानि त्रीणि तीव्राग्नौ कुर्यात्तदवतारयेत् ॥

v2.c35.s3.71

¹ The text reads रसदेशीयो, which is incorrect.

v2.c35.s3.72

² अह्नि [अहनि] is grammatically incorrect.

v2.c35.s3.73

शतांऽशं वेधयेत्तारं शुद्धहेम प्रजायते । जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥ शिलया मारितं नागं कुमार्याः स्वरसेन तु । पुटद्वादशयोगेन नागभस्म प्रजायते ॥ शतसंख्यानि वै कुर्यात् पुटान्येवं शरावके । कुमार्याः स्वरसेनैव भावयेद्दिनसप्तकम् ॥ पूर्വ്വवत् पुटं कार्य्यं शतसंख्यामितं तथा । सूतगन्धशिलादट्टसमं चेन्नागभस्म कम् । त्रिंशदुपलैर्दद्यात् पुटं वाराहसंज्ञकम् ॥ अनेन विधिना सम्यक् शतसंख्यानि दापयेत् । पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम् ॥ पश्चादृढे काचमये कूपे द्वात्रिंशयाम कम् । बालुकाग्निं प्रद्याच्च स्वाङ्गशीतं समुद्धरेत् । तद्भस्म ग्रहीतव्यं वेधयेत्तारशुद्धके । शुद्धहेम भवेत्तेन नात्र कार्या विचारणा ॥ दृष्टप्रत्यययोगोऽयं कथितो नात्र संशयः ॥

Linked texts (3)