A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.44
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.44
- Language
- English
v2.c35.s3.44
पारदो रसकश्चैव देहलोहकरावुभौ । नागार्जुनैन कथितौ सिद्धौ श्रेष्ठौ रसावुभौ ॥ कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ । तेन स्वर्णमयी सिद्धिरर्जिता¹ च न संशयः ॥ रसको द्रावितः सम्यक् निक्षिप्तो रसपूरके । निर्मलत्वमवाप्नोति सप्तवारं निमज्जितः² ॥ काञ्जिके वाथ तक्रे वा नृमूत्रे³ मेषमूत्रके । द्रावितं चालितं⁴ सम्यक् खर्परं परिशुध्यति ॥ खर्परं रेचितं शुद्धं स्थापितं नरमूत्रके । रञ्जयेद्भासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥