A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.55
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s3.55
- Language
- English
v2.c35.s3.55
फुल्लिका खटिका¹ तद्वत् द्विप्रकारा प्रशस्यते । किञ्चित् पोता च सुस्निग्धा गरदोषविनाशिनी ॥ श्वेतवर्णा परा साम्ला फुल्लिका लोहमारणी ॥ कषाया मधुरा काङ्क्षी कटुका विषनाशिनी । व्रणघ्नी कफहा चैव नेत्रव्यापत्तिदोषहा ॥ कण्ठरोगहरा सा तु पारदे बीजजारणी । धान्याम्ले तुवरी क्षिप्ता शुध्यति त्रिदिनेन वै ॥ क्षारैराम्लैश्च मृदिता ज्ञाता सत्त्वं विमुञ्चति । तत् सत्त्वं धातुवादार्थे चौषधे नोपपद्यते ॥